________________
[ पा० ३. सू० ४५-४६.]
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः
[ ७६
उत्कन्दको रोग इति ? पृषोदरादित्वाद् भविष्यति ।। ४४ ।।
न्या० स० – उदः स्थेत्यादि । ननु उदस्थादित्यत्र सकारलोपः कस्मान्न भवति ? न च वाच्यम् - डागमेन व्यवधानम्, यतोऽङ्गिनोऽङ्ग व्यवधायकं न भवति, सत्यम् - आवृत्य उद इति पदं स्था-स्तम्भः सकारस्य च सम्बन्धनीयम् 'उदस्थात्, उदस्तभत्' इत्यनयोः सिद्ध्यर्थन्, उदस्थादित्यत्राडागमात् पूर्वमन्वित्यधिकाराद् न भवति, अडागमे 5 च सति " पञ्चम्या निर्दिष्टे परस्य " [ ७. ४. १०४. ] तच्चानन्तरस्यैव, न व्यवहितस्येति न भवति । उत्स्थान इत्यत्र स्थानस्य विशेषणम् उत्, न तु तिष्ठतेरिति ॥ ४४ ॥
तद से स्वरे पादार्था । १.३. ४५ ॥
तदः परस्य सेः स्वरे परे लुग् भवति सा चेत् पादार्था - पादपूरणी भवति । 'सैष दाशरथी रामः, सैष राजा युधिष्ठिर:' । 'सौषधीरनुरुध्यते' 110 पादार्थेति किम् ? ' स एष भरतो राजा' ।। ४५ ।।
न्या० स० – तदः सेरित्यादि । तद इत्यनेन तदादेशस्य सस्य ग्रहरणम्, अन्यथा व्यञ्जनात् सिलोपः सिद्ध एव, अनुकरणत्वात् तद इत्यत्र त्यदाद्यत्वाभावः, शब्दार्थानुकरणे हि प्रकृतिवदनुकरणम् इति न्यायः प्रवर्तते, शब्दानुकरणे तु नेति ; कथमिदमिति चेत् ? " तदः से: स्वरे० " [ १.३.४५. ] इति "परिव्यवात् क्रिय:" 15 [ ३. ३. २७. ] इति सूत्रसूत्ररणात् । पादाय इयम्, पादोऽर्थो यस्यामिति वा पादार्था । ननु “सोऽहं तथापि तव० " [ भक्तामरस्तोत्रे श्लो० ५. ] इत्यस्मिन् प्रयोगे “तदः सेः स्वरे पादार्था” [ १. ३. ४५ ] इत्यनेन प्रतिष्णातेन निमित्तस्वरे परत्रावतिष्ठमाने सति सेलुक् कथं न भवति ? उच्यते - “तदः से: स्वरे० " [ १. ३. ४५. ] इति सूत्रं " रोर्यः” [ १. ३. २६. ] सामान्यस्वरनिमित्तसूत्रविषये " सो रु: " [ २. १.७२. ] इत्यस्य बाधकम्, 20 न पुनः स्वरविशेषनिमित्तस्य "अतोऽति रोरु:" [ १.३.२०. ] इत्यस्य विषये, कुतः ? सर्वत्रापि विशेषेण सामान्यं बाध्यते, न सामान्येन विशेषः इति न्यायात् ।। ४५ ।।
एतदश्च व्यञ्जनेऽनग्- नञ्समासे ॥ १. ३. ४६. ।।
अकि नञ्समासे च
एतदस्तदश्च परस्य सेर्व्यञ्जने परे लुग् भवति, सति न भवति । एष ददाति स ददाति परमैष करोति, एतदवेति किम् ? को दाता, यो धन्यः । सेरित्येव ? ' तिष्ठतः । अनुबन्धग्रहणादिह न भवति -- एतेषु चरति तेषु याति । अनग्नञ्समास इति किम् ? एषक: करोति, सको याति तन्मध्यपतितस्तद्ग्रहणेन
परमस ददाति 125 एतौ गच्छतः, तौ