________________
७८ ]
बृहद्वृत्ति - लघुन्याससंवलिते
[ पा० ३. सू० ४३-४४.]
काराणां च दीर्घो भवति । महतेः क्तौ माढिः, लीढम्, मीढम्, गूढम् । तड्ढ इति किम् ? मधुलिड् ढौकते, नायं लुप्यमानढकारनिमित्तो ढः, एवम्‘चकृड्ढ्वे, लुलुविड्ढ्वे' इत्यादावपि ढकारस्य द्वित्वे सति ढकारयोर्निमित्तनिमित्तिभावो नास्तीति लुग् न भवति । प्रदिदुत इत्येव ? प्रतृढम् प्रावृढम् । अन्वित्येव ? लेढा, मोढा, अत्र गुणे कृते पश्चाद् ढलोपः, अन्यथा हि पूर्वमेव 5 ढलोपे दीर्घे च लीढा, मूढेत्यनिष्टं रूपं स्यात् ।। ४२ ।।
न्या० स० – ढस्तड्ड इत्यादि । अन्विति - इदं सूत्रं पदान्ते “धुटस्तृतीयः " [२. १. ७६.] इत्यस्य बाधकम्, अपदान्ते तु " तृतीयस्तृतीय- चतुर्थे” [ १. ३. ४९. ] इत्यस्य चेति, ततोऽन्वित्यधिकार एतयोः सूत्रयोविषयं मुक्त्वा ज्ञातव्यः, अत एव 'मधुलिड् ढोकते' इत्यत्र पूर्वं तृतीयत्वाभावे सति न द्व्यङ्गविकलतेति । चकृड्वे इति - अत्र 10 "र्नाम्यन्तात् ० " [ २ १ ८० ] इति धस्य ढत्वे "प्रदीर्घात् ०" [ १.३. ३२. ] इति तस्य द्वित्वे "तृतीयस्तृतीय० " [ १.३. ४६ ] इति ढस्य ड: । आतृढम् आवृढमिति"तृहौ, तृ हौत् हिंसायाम्" "वृहौत् उद्यमने" इति धातू "वेटोऽपतः " [ ४. ६. ६२. ] इतीनिषेधः । लेढा इति - नन्वत्र परत्वाद् गुणो भविष्यति, किमन्वित्यधिकारेण ? सत्यम्–ढलोपस्याल्पाश्रितत्वेनान्तरङ्गत्वात् प्रथमं ढलोपो दीर्घत्वं च प्राप्नोति । ननु 15 ढस्यासत्त्वात् सर्वमप्यसन, ततो गुरणो भविष्यति, सत्यम् - तथापि प्रसिद्धं बहिरङ्ग - मन्तरङ्ग इति ढत्वे सति दीर्घत्वं स्यात्, वार्णो विधिः [ वार्णात् प्राकृतम् ] इति न्यायेनान्तरङ्ग ं ढत्वम्, ततस्तस्मिन् विधेये गुणोऽसिद्ध:, यतो गुणोऽवार्णो विधिरिति, कार्यासत्त्वपक्षे इदमुक्तम् ; शास्त्रासत्त्वपक्षे तु गुणे कृते ढत्वं भवति ।। ४२ ।।
सहि-वहेरोच्चावर्णस्य ॥ १. ३. ४३ ॥
'सहि वहि' इत्येतयोर्ढस्य तड्ढे परेऽनु लुग् भवति, अवर्णस्य चौकारो भवति । सोढा, वोढा, उदवोढाम् । अवर्णस्येति किम् ? ऊढ: ।। ४३ ।।
20
उद' स्था-स्तम्भः सः ॥ १.३. ४४ ॥
उदः परयोः 'स्था स्तम्भ' इत्येतयोः सकारस्य लुग् भवति । उत्थाता, उत्थातुम्, उत्तम्भिता, उत्तम्भितुम् । उद इति किम् ? संस्थाता, संस्तम्भिता 125 स्था-स्तम्भ इति किम् ? उत्स्तोता, उत्स्कन्नः । स इति किम् ? उत्तिष्ठति, उदस्थात्, उदस्तभत्, उत्तिस्तम्भिषति । प्रत्यासत्तेः स्था-स्तम्भविशेषणस्यैवोदो ग्रहणादिह न भवति - ऊर्ध्वं स्थानमस्योत्स्थानः । कथमुत्स्कन्दतीति