________________
[ पा० ३. सू० ४१-४२.]
एवम् - सर्पीषि, सुदृशि । इत्येव ? भवान् साधुः, पिष्- शिषोहौं तस्य धित्वे
भवति ।। ४० ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ ७७
शिड्-ह इति किम् ? गम्यते हन्यते । पदान्त श्रेयान् हेतुः । अन्वित्येव ? पिण्ढि, शिण्ठि, अत्र षस्य डत्वे च शिडभावाच्छ्ननकारस्यानुस्वारो न
न्या० स० -- शिड़ ह इत्यादि । ननु 'पिण्ड्टि' इत्यादी श्नस्यालुकः स्थानिवत्त्वाद - 5 कारेण षस्य व्यवधानाद् अनुस्वारो न प्राप्नोति, किमन्वित्याश्रयणेन ? नैवम् - "न सन्धि०” [७. ४. १११.] इति सन्धिविधौ स्थानित्वनिषेधात् । ननु हस्य शिट्संज्ञां कृत्वा “शिट्यनुस्वारः” इत्येवोच्यताम्, सत्यम् - यदि हस्य शिट्संज्ञां कृत्वा इह हुग्रहणं न क्रियते तदा 'प्रोजढद्' इत्यत्र 'अघोषे शिट : ' [ ४. १.४५ ] इति हलोपेऽनिष्टं रूपं स्यादिति ॥ ४० ॥
10
रो रे लुग् दीर्घश्चादिद्रुतः ॥ १. ३. ४१ ॥
अपदान्त इति नानुवर्तते, रेफस्य रेफे परे लुग् भवति, अकारेकारोकाराणां चानन्तराणां दीर्घो भवति । पुना रमते, प्राता रौति, अग्नी रथेन, नीरक्तम्, दूरक्तम्, पटू राजा, उच्चै रौति । अन्वित्येव ? अहोरूपम्, अत्र पूर्वमेव रोरुत्वे रेफाभावाल्लुग्-दीर्घाभावः सिद्धः ।। ४१ ।।
15
न्या० स०-रो र इत्यादि । नन्वपदान्त इत्यधिकारात् 'अजर्घाः, अपास्पा:, अचोकू :, अचाखा:, अचाकाः, अपापा:' इत्यादिष्वेव प्राप्नोति, न तु स्वाराज्यमित्यादाविति, नैवम्अदित इति इद्ग्रहणादपदान्त इति नानुवर्तते, यत इकारात् परस्य रेफस्य रेफेऽपदान्ते संभवो नास्तीति भिन्नस्थानिनिमित्तभरणनाद वा । किं पुनरिदं सानुबन्धस्य कार्यिणो रेफस्य ग्रहणं निरनुबन्धस्य वा ? तत्राद्यपक्षे - अग्नी रथेनेत्यादि सिध्यति, न तु 'पुना रमते ' 20 इत्यादि । द्वितीयपक्षे 'पुना रमते' इत्यादि सिध्यति, न त्वग्नी रथेनेत्यादि, न चोभयपरिग्रहे किञ्चिन्नियामकमस्ति उच्यते-अत्र “रो रे लुग्०” [ १. ३. ४१ ] इत्येकप्रयत्नेनैव सूत्रे उभयोच्चारणादेकत्र सानुबन्धस्यापरत्र निरनुबन्धस्य च निर्देशाद् निरनुबन्धग्रहगे सामान्यग्रहरणम् इति न्यायाच्च सामान्येन ग्रहणं भवतीत्याह -- रेफस्येति । अनन्तराणामिति - ननु सामान्यनिर्देशादनन्तराणामेवेति कुतो लभ्यते ! इति चेद्, उच्यते - 25 'रे' इत्युपश्लेषसप्तमीनिर्देशाद् लुगिव दीर्घोऽपि रेफोपश्लिष्टस्यैव भवतीति ।। ४१ ।।
ढस्तड्ढे ॥ १. ३. ४२ ॥
तन्निमित्तो ढस्तड्ढः, ढकारस्य तड्ढे परेऽनु लुग् भवति, अकारेकारो