________________
बृहद्रवृत्ति - लघुन्याससंवलिते.
[पा० ३. सू० ३९-४०.]
ऽऽभीक्ष्ण्ये” [५. १. १५७.] इति णिन् । पुत्रादिनी शिशुमारीति-प्रध्यारोपेण हि निन्दा आक्रोश:, तत्त्वाख्याने तु तदसम्भव इति प्रतिषेधाभावात् "प्रदीर्घात् ० " [१. ३. ३२. ] द्वित्वं भवत्येव । नागीति - " जातेरयान्त०" [ ५. ४. ५४.] इति ङीः ॥ ३८ ॥
म्नां धुड्वर्गेऽन्त्योऽपदान्ते १. ३. ३६ ॥
७६ ]
अन्विति वर्तते, अपदान्ते वर्तमानानां मकार नकाराणां धुट् संज्ञके वर्गे 5 परे प्रत्यासत्तेर्निमित्तवर्गस्यैवान्त्योऽनु भवति । म् - गन्ता, गन्तुम् । न् - शङ्किता, शङ्कितुम्, अञ्चिता, अञ्चितुम्, कुण्ठिता, कुण्ठितुम्, नन्दिता, नन्दितुम्, कम्पिता, कम्पितुम् । म्नामिति बहुवचनं वर्णान्तरबाधनार्थम्, तेन - ' कुर्वन्ति, कृषन्ति, विस्रम्भः, संरम्भः' इत्यत्र नकारस्य णत्वं बाधित्वा अनेन वर्गान्त्य एव भवति; 'क्रान्त्वा, भ्रान्त्वा' इत्यत्रापि नकारे कृते गत्वबाधनार्थं पुन - 10 कारः । धुडिति किम् ? श्रहन्महे, प्रहन्मः । धुड्वर्ग इति किम् ? गम्यते, हन्यते । अपदान्त इति किम् ? भवान् करोति । अन्वित्यधिकाराद् व्यङ्क्ता, व्यङ्क्तमित्यत्राञ्जेर्गत्वे कत्वे च कृते पश्चात् कवर्गान्त्यः, अन्यथा चवर्गान्त्यः स्यात् ।। ३६ ।
न्या० स०--नां घुडित्यादि - यद्यत्र वर्गग्रहणं न स्यात् तदा 'गन्ता' इत्यत्र थकार: 15 स्यात्, तस्यापि तकारापेक्षयाऽन्त्यत्वात्, इत्यव्यवस्थानिरासाय वर्गग्रहणमिति । निमित्तवर्गस्यैवेति-मकारनकारापेक्षयाऽन्यस्य वर्णस्यान्त्यस्याभावादिति । बहुवचनमिति - प्रयमर्थः - वर्णग्रहणे जातिग्रहण इति जातिनिर्देशे प्राप्ते बहुवचनं व्यक्तिनिर्देशार्थभू, तेन यावान् मकारो नकारश्चापदान्तस्तत्र सर्वत्र व्यक्त्यपेक्षया वैयर्थ्यं मा भूदिति प्रवर्तमानोऽन्त्यः कार्यान्तरबाधायै प्रभवति, तेन 'शङ्किता' इत्यत्र " प्रदीर्घा ० ' [१.३.३२.]20 इत्यादिभिद्वित्वादिकार्यान्तराणि न स्युः । ' गम्यते, हन्यते' इत्यत्र मनोर्निमित्तयकारस्याऽन्त्यो रः स्यात् ।। ३६ ॥
शिङ्-हेऽनुस्वारः ॥ १. ३. ४० ।।
अपदान्ते वर्तमानानां म्नां स्थाने शिटि हकारे च परे अनुस्वार आदेशो भवति । म्-पुंसि, गंस्यते; न्-दंशः, सुदिशि कुलानि वपूंषि, धनूंषि, 25 यशांसि पयांसि, गुडलिहि, स्वनड्वांहि कुलानि । म्नामिति बहुवचनाद् बृंहणमित्यत्र णत्वं, दंश इत्यादी अत्वं च बाधित्वाऽनेनाऽनुस्वार एव भवति ;