________________
[पा० २. सू० ३७-३८. ]
श्शेते, तच् शेते; षट् ष्षण्डे, षट् षण्डे; तत् स्साधुः तत्साधुः ; वत्स्सः, वत्सः ; क्षीरम्, क्षीरम्; अप्सराः, अप्सराः । तत इति किम् ? भवान् साधुः । शिट इति किम् ? मथ्नाति ख्याति ॥ ३६ ॥
श्रीसिद्धहेमचन्द्रशब्दानुशासने प्रथमोऽध्यायः [ ७५
よ
न्या० स०—तत इत्यादि । ताभ्यां ततः, तच्छब्दस्यानन्तरपूर्ववस्तुपरामशित्वेन प्रथम-द्वितीययोरनुकर्ष इति । " शिट्याद्यस्य० " [१. ३. ५६ ] इति पकारस्य फकारे 5 कृते द्वितीयादपि सस्य द्वित्वे अफसरा इत्यपि दृश्यम् ।। ३६॥
न रात् स्वरे ॥ १. ३. ३७ ।।
रात् परस्य शिट: स्थाने स्वरे परे द्वे रूपे न भवतः । दर्शनम्, विमर्शः, कर्षति, वर्षति, वृस्या इदं वार्सम्, कृसराया इदं कार्सरम् । रादिति किम् ? तच् श्शेते, षट् ष्षण्डे वत्स्सः । स्वर इति किम् ? कर्श्यते, वर्ष्यते । शिट 10 इत्येव अर्कः, वर्चः। “हदिर्हस्वरस्य ०" [१. ३. ३१.] इति विकल्पे प्राप्त प्रतिषेधः ।। ३७ ।।
न्या० स०-न रादित्यादि । नरा ब्रुवन्तः सीदन्ति अस्यामिति पृषोदरादित्वात् वृसी । कश्श्यत इति रिणगन्तस्य, एवम्-वर्ण्यत इत्यपि ।। ३७ ।।
पुत्रस्याssदिन- पुत्रादिन्याक्रोशे ॥ १.३.३८ ॥
आदिन्शब्दे पुत्रादिन्शब्दे च परे पुत्रशब्दसम्बन्धिनस्तकारस्याक्रोशविषये द्वे रूपे न भवतः । " प्रदीर्घाद् विरामैकव्यञ्जने” [१. ३. ३२.] इति विकल्पे प्राप्ते प्रतिषेधः । पुत्रादिनी त्वमसि पापे !, पुत्रपुत्रादिनी भव । आदिन्- पुत्रादिनीति किम् ? पुत्त्रहती, पुत्रहती; पुत्त्रजग्धी पुत्रजग्धी; "अनाच्छादजात्यादेर्नवा” [२. ४. ४७.] इति वा ङीः । आक्रोश इति किम् ? 20 पुत्त्रादिनी शिशुमारी, पुत्रादिनीति वा पुत्त्रपुत्रादिनी नागी, पुत्रपुत्रादिनीति वा ।। ३८ ।।
15
न्या० स०- — पुत्रस्येत्यादि - नकारान्तताऽभिव्यक्त्यर्थमादिन्निति सूत्रांशे लक्षणप्राप्तोऽपि नलोपो न कृतः । आदिन् पुत्रादिन्नपादानेऽपि नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम् इति न्यायात् स्त्रियामुदाहृतम्, तत्रैव प्रायेणाक्रोशसम्भवात्; स्त्रीवत् पुंसोऽपि 25 पुत्रादनाक्रोशे तत्रापि प्रतिषेधो भवत्येव पुत्रादी भवेति । अभीक्ष्णं पुत्रानत्सीति “व्रता