________________
८० ]
बृहवृत्ति-लघुन्याससंवलिते
पा० ३. सू० ४७-४८.]
गृह्यते इति साकोऽपि प्राप्तिरिति प्रतिषेधः, अनेषो गच्छति, असो याति । । व्यञ्जन इति किम् ? एषोऽत्र, सोऽत्र ।। ४६ ।।
न्या० स०–एतद इत्यादि । प्रकृतेः परः श्रूयमाणश्चकारः प्रकृत्यन्तरसद्वितीयता गमयन् पूर्वसूत्रश्रुतप्रकृत्यैव सद्वितीयतां गमयति, नत्रः समासो नसमासस्ततो द्वन्द्वगर्भो नञ्तत्पुरुषः, 'नत्र समासे च सति न भवति' इत्यनेन नत्रः क्रियासम्बन्धं दर्शयन् 'अनग्- 5 नज समासे' इति प्रसज्यप्रतिषेधोऽयमिति दर्शयति, पर्युदासे हि सति नियुक्त तत्सदृशेक इति न्यायेन नसमासादन्यत्रापि समास एव वर्तमानाभ्याम् एतत्-तच्छब्दाभ्यां सिलोपः स्यादिति । 'अनग्-नसमासे' इति प्रतिषेधात् परमैष करोतीत्यादौ तदन्तादपि सेलुक् । धनं लब्धा "धन-गणाल्लब्धरि" [ ७. १. ६. ] इति ये धन्यः । अनुबन्धग्रहणादितिअयमर्थः-'व्यञ्जने' इति विषयसप्तम्यामपि सेरिति इदनुबन्धग्रहणाद् अन्यानुबन्धसमुदायस्य 10 लोपाभावः-एतेषु चरतीत्यादौ। अथात्र परत्वादेत्वे षत्वे च कृते सकारस्याभावाल्लोपो न भविष्यति, सत्यम्-विशेषविहितत्वादेत्व-षत्वाभ्यां पूर्वमेव लोप: स्यादिति । किञ्च, एतत् स्कुम्नातीत्यादावपि स्यात् ।। ४६ ।।
व्यञ्जनात् पञ्चमान्तस्थायाः सरूपे वा ॥१. ३. ४७ ॥
व्यञ्जनात् परस्य पञ्चमस्यान्तस्थायाश्च सरूपे वर्णे परे लुग् वा15 भवति । क्रुञ्चो ङ्ङगै क्रुङग, क्रुङौ ; अदितेरयमादित्यः, स देवता अस्य आदित्यः स्थालीपाकः, आदित्य्य इति वा। व्यञ्जनादिति किम् ? अन्नम्, भिन्नम् । सरूप इति किम् ? वर्ण्यते, पित्र्यम् । केचित् तु पञ्चमाऽन्तस्थायाः पञ्चमाऽन्तस्थामात्रे लोपमिच्छन्ति, न तु सरूप एव, तन्मते-'वभ्यते, वभ्र यते, मभ्यते, मभ्र यते' इत्यादावपि भवति । अपरे तु अभ्र-वभ्र-मभ्राणां त्रयाणां20 धातूनां धुटि रेफलोपं नित्यमिच्छन्ति-अभ्रतेः “तिक्कृतौ नाम्नि" [५. १. ७१.] इति तिकि अब्धिः, वभ्र-मभ्रोर्यङ्लुपि वावब्धि, मामब्धि, सिद्धान्ते तु अभ्रितः, वावधि त, मामभ्रि त ।। ४७ ।।
न्या० स०-व्यञ्जनादित्यादि-समाहारेऽपि सौत्रत्वाद ह्रस्वाभावः। आदित्यो देवताऽस्येत्यादित्य इति-अत्राकारलोपे लुकः सन्धिविधित्वात् स्थानिवद्भावप्रतिषेधेऽनेन25 पक्षे यलुक् । केचित् त्विति-चान्द्रप्रभृतयः । अपरे स्विति-शाकटायनादयः । सिद्धान्त इति-शुद्धपक्षे, स्वमत इत्यर्थः । 'स्वे' इति कृते शाङ्ग इत्यादिष्वपि स्यात् ।। ४७ ॥
धुटो धुटि स्वे वा ॥ १. ३. ४८ ॥ व्यञ्जनात् परस्य धुटो धुटि स्वे परे लुग् वा भवति । प्रत्तम्, प्रत्तम् ;