________________
विकृति-दीपिकालङ्कता।
दीधिति 'यदाऽदृष्ट-तदा जन्यं ज्ञानं, दुःखं वा,
जागदीशी तदानीमपि चरमध्यणुकनाशानुगुणस्य परमाणुस्पन्दस्य सत्त्वात् , _ तत्कालोत्पन्नपरमाणूत्तरसंयोगेन प्रलयपूर्वक्षण एव पश्चात्तस्य विनाश्यत्वात् ,
ताशपरमाणूत्तरसंयोगस्य [च] कार्यद्रव्येण सहैव स्वीकारान्न नित्यत्वम् , आश्रयनाशादेव तन्नाशसम्भवादित्यत आह,-* यदादृष्टमिति ।
केचित्तु-"स्वमते व्यणुकस्यासत्त्वात, स्पन्दस्य च खण्डप्रलये वृत्तौ बलवत्तरप्रमाणाभावाद्, 'यदाऽदृष्ट'मित्युक्तम्" इत्याहुः-तच्चिन्त्यम् ।
नित्यज्ञानमादाय सद्धेतुतावारणाय,-जन्यमिति । नित्यसुखाभिव्यक्तेर्मुक्तित्वमते' सद्धेतुत्वमाशंक्य साध्यान्तरमाह,- दुःखं वेति ।
विवृतिः ननु महाप्रलयपूर्वतृतीयक्षणे स्पन्दरूपक्रियासत्त्वे किं मानमित्यत आहतदानीमपीति। तादृशतृतीयक्षणेऽपीत्यर्थः । चरमध्यणुकनाशानुगुणस्य = अन्तिमद्वयणुकनाशप्रयोजकस्य, परमाणुस्पन्दस्य = परमाणुक्रियायाः, तत्कालोत्पन्नेति । महाप्रलयपूर्वतृतीयक्षणोत्पनेत्यर्थः। परमाणूत्तरसंयोगे. नेत्यस्य-विनाश्यत्वा'दित्यनेनान्वयः। पश्चात् = परमाणूत्तरसंयोगोत्तरकाले, तस्य = स्पन्दस्य, एतावता,-निरुक्त स्पन्दरूपहेतोयणुकनाशक्षणे सत्त्वं, तदुत्तर 'क्षणे च विनाश इति,-सूचितम् । कार्यद्रव्येन = त्रसरेणुना, आश्रयनाशात् = त्रसरेणुनाशात् , तन्नाशसम्भवात् = परमाणूत्तरसंयोगनाशसम्भवात् ।
केचित्त्विति । स्वमते = दीधितिकारमते।
तश्चिन्त्यमिति । चिन्ताबीजन्तु-'ब्रह्मणो वर्षशतमायु'रित्यागमस्यैत्र खण्डप्रलये क्रियासत्त्वे बलवत्तरप्रमागस्य सद्भाव इति ।
सद्धेतुवारणायेति । तथा च प्रलये हेतुमति नित्यज्ञानरूपसाध्यस्य सत्त्वेन सद्धेतुतया तद्वारणप्रयासोऽनुचित इति भावः ।
नित्यसुखेति । नित्यं यत्सुखं तस्य याऽभिव्यक्तिर्ज्ञानं तस्य 'मुक्तित्व'मत इत्यर्थः। सुखस्य नित्यत्वे विवादान्मत इत्युक्तम् । दुःखं वेतीति । 'दुःखवानदृष्टा'दित्यत्रैवातिव्याप्तिरित्यर्थः ।
१. 'मोक्षत्वमते' इति क्वचित्पाठः ।