________________
सिद्धान्त-लक्षण-जागदीशी।
दीधितिः 'यदा स्पन्दस्तदा घणुकम् -
जागदीशी यदा स्पन्द इति । स्पन्दवति खण्डप्रलये सर्गान्तरीयब्यणुकप्रागभाववत्त्वेन ब्यणुकत्वावच्छिन्नध्वंसविरहादतिव्याप्तिः । [ न च खण्डप्रलये स्पन्दसत्त्वे मानाभावः, 'ब्रह्मणो वर्षशतमायु'रित्यागमप्रसिद्धेरेव मानत्वात् , न हि रविक्रियां विना क्षणमुहूर्तादिघटितस्य वर्षस्य सम्भव इति' ।। ननु महाप्रलयपूर्वतृतीयक्षणे व्यणुकत्वावच्छिन्नध्वंससत्त्वान्नातिव्याप्तिः,
विवृतिः ननु 'यणुकवान् स्पन्दादित्यत्र 'हेतुसमानाधिकरणसंसर्गाभाव'निवेशेऽपि कथमतिव्याप्तिः सम्भवति, द्वयणुकत्वावच्छिन्नध्वंसस्य हेत्वधिकरणे खण्डप्रलये सत्त्वादित्यत आह-स्पन्दवतीति । सर्गान्तरोयेति । तथा च सृष्टयन्तरीयद्वयणुकप्रागभावसत्त्वे द्वयणुकत्वावच्छिन्नस्य ध्वंसः खण्डप्रलये न सम्भवति, कस्य. चिद्वयणुकस्य ध्वंससत्त्वे च न व्यणुकत्वावच्छिन्नस्य प्रागभावः, ध्वंस प्रागभावयोः सत्त्वे च, न द्वयणुकत्वावच्छिन्नात्यन्ताभाव इति , साध्यस्य संसर्गाभावो न हेतुसमानाधिकरणः, किन्तु सृष्टिकालवृत्तित्वविशिष्टगोत्वाभाव एव तथा, तत्प्रतियोगितानवच्छेदकत्वस्य द्वयणुकत्वरूपे साध्यतावच्छेदके सत्त्वाद्भवत्यतिव्याप्तिरित्याशयः।
ननु खण्डप्रलये स्पन्दात्मकक्रियाया असत्त्वान्निरुक्तस्पन्दहेतोः सद्धेतुत्वमेव, सृष्टिकाले स्पन्दाधिकरणे द्वयणुकस्य सत्त्वादित्यतः खण्डप्रलये क्रियासत्त्वे प्रमाणं दर्शयति-न चेति । यदि खण्डप्रलये क्रियैव न स्यात्तदा ब्रह्मणः शतवर्षजीवित्वव्यवहारो न स्यात् , शतवर्ष रूपकालस्य क्षण-मुहूर्तादिघटिततया क्रियाविरहे क्षणादेवक्तुमशक्यत्वादिति भावः ।। . 'जन्यज्ञानवानदृष्टा'दिति स्थलान्तरानुसरणे बीजमाह-नन्विति । महाप्रलयपूर्वतृतीयक्षणे = द्वयणुकनाश-परमाणूत्तरसंयोगयोरुत्पत्तिक्षणे ।
दीपिका ननु कस्तावन्महाप्रलयः ?-उच्यते-अदृष्टसध्रीचीनैः कालानल-झञ्झानिलादि. भिः स्थूलेऽखिले जगति विलोपिते, त्रसरेणुनाशार्थ (१) प्रथमक्षणे परमाणुक्रियोत्पद्यते, (२) क्रियातो विभागः (३) विभागात्पूर्वसंयोगनाशः (४) तत उत्तरदेश [त्रसरेणु ] संयोगो, यणुकत्वावच्छिन्नध्वंसश्च, (५) ततः क्रियानाशस्त्रसरेणुनाशश्च, (६) ततः षष्ठक्षणे आश्रय [ त्रसरेणु ] नाशादेवोत्तरसंयोगनाशः, स एव षष्टः क्षणो निखिलजन्यानाधारभूतो 'महाप्रलय' इत्युच्यतेऽभियुक्तैरिति ।
१. न चेत्यारभ्य-इत्येतदन्तः [ ] मध्यस्थः पाठो हस्तलिखितपुस्तके नोपलभ्यते ।