________________
विवृति-दीपिकालङ्कता।।
जागदीशी तथा च प्रलये गोत्वावच्छिन्नध्वंसवत्त्वादेव नातिव्याप्तिरिति भावः । न च गोध्वंसस्य गोत्वावच्छिन्नप्रतियोगिताकत्वस्वीकारेऽपि [ध्वंस-प्रागभावादेः प्रतियोगितावच्छेदकसम्बन्धास्वीकारेण'] साध्यतावच्छेदकीभूतकालिकविशेषणता वच्छिन्नप्रतियोगिताकत्वविरहात्,-कुतस्तमादायातिव्याप्तिव्युदास इति वाच्यं, साध्यतावच्छेदकसम्बन्धान्यसम्बन्धानवच्छिन्नस्यैव हेतुसमानाधिकरणाभावप्रतियोगित्वस्य लक्षणे प्रवेशनीयत्वात् , [तावतैव समवायाद्यवच्छिन्नवह्नथाद्यभावमादायाव्याप्तेारणात्,3 ] तस्य च ध्वंसप्रतियोगितासाधारण्यादिति भावः ।
वितिः त्यन्तपदेन संसर्गाभावनिवेशेऽपि कथमतिव्याप्तिवारणमित्यतो भावमाह-तथा चेति । प्रलये = गोत्वरूपहेतोरधिकरणे, ध्वंसवत्त्वादेवेति । गोस्वरूपसाध्यस्य ध्वंसात्मकसंसर्गाभावसत्त्वादित्यर्थः । नातिव्याप्तिरिति । साध्यसंसर्गाभावस्य लक्षणघटकत्वादित्याशयः।
न चेति । 'वाच्यमि'त्यग्रेणान्वयः । स्वीकारेऽपीति । अन्यथा गोध्वंसप्रतियोगितावच्छेदकत्वस्य साध्यतावच्छेदके गोस्वेऽसत्वात् संसर्गाभावनिवेशेप्यतिव्याप्तिरस्त्येवेति भावः । साध्यतावच्छेदकीभूतेति । समवायेन वयभावमादाय 'वह्विमान्धूमादित्यत्राव्याप्तिवारणाय लक्षणस्य साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताघटितत्वादित्याशयः । अतिव्याप्तीति । उक्तगोध्वंसस्य लक्षणाघटकत्वात्सृष्टिकालवृत्तित्वविशिष्टगोत्वाभावमादायैवोक्तातिव्याप्तेरवस्थानादिति हृदयम्।
हेतुसमानाधिकरणसाध्यतावच्छेदकसंसर्गातिरिक्तसम्बन्धानवच्छिन्नप्रतियोगिताया एव 'साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिता'पदेन विवक्षणीयतया समवायेन वह्विनिष्ठप्रतियोगितायाः साध्यतावच्छेदकसंयोगातिरिक्तसमवायावच्छिन्नतया लक्षणाघटकत्वेन 'वह्निमान्धूमा'दित्यत्राव्याप्तिवारणसम्भवः,
एवं सति-धंसीयप्रतियोगितायाः सम्बन्धानवच्छिन्नत्वेन साध्यतावच्छेदकीभूतकालिकसंसर्गातिरिक्तसंसर्गानवच्छिन्नत्वस्याक्षततया गोध्वंसमादायैव 'कालो गोमान् गोत्वा'दित्यत्रातिव्याप्तिवारणं सम्भवतीत्याशयेन समाधत्ते-साध्यता. वच्छेदकेति। तस्य चेति । साध्यतावच्छेदकसंसर्गातिरिक्तसम्बन्धानवच्छिन्नत्वस्येत्यर्थः, ध्वंसप्रतियोगितेति । ध्वंसप्रतियोगितायाः सम्बन्धानवच्छिन्नत्वेन सुतरां तथेत्याशयः। १, ३. अयं पाठो लिखितपुस्तके नास्ति । २. 'सम्बन्धावच्छिन्ने ति लिखितपुस्तकपाठः।