________________
६६
सिद्धान्त-लक्षण जागदीशी ।
दीधितिः संसर्गाभावमात्रोक्तावपि, जगदीशी
[विशेषणता] सम्बन्धेनैवात्यन्ताभावानभ्युपगमात्, तथाऽपि प्रतियोगिवैयधिकरण्याघटितस्य व्याप्यवृत्तिसाध्यकस्थलीयलक्षणस्यावश्यं दैशिकविशेषणतया [Sभावे ] हेतुसामानाधिकरण्यघटितत्वात्तस्यैवातिव्याप्तिर्बोध्या । न च कालिकसम्बन्धावच्छिन्नप्रतियोगिताकस्य दैशिक [विशेषणता ] सम्बन्धेन हेतुमन्निष्ठा [ऽत्यन्ता ] भावस्याप्रसिद्ध्या तथाऽपि नातिव्याप्तिरिति वाच्यम्; सृष्टिकालवृत्तित्वादिविशिष्ट गोत्वादेरत्यन्ताभावस्यैव तादृशस्य प्रसिद्धत्वादिति भावः ।
मिश्रमतं निरसितुमाह, - संसर्गाभावेति । - ' अत्यन्ताभावपदेनेत्यादिः । विवृतिः
उत्तरयति - तथापीति । दैशिकविशेषणतया = स्वरूपसम्बन्धेन, हेतु - सामानाधिकरण्यघटितत्वात् = हेत्वधिकरणवृत्तित्वघटितत्वात् तस्येति । व्याप्य - वृत्तिसाध्यकस्थलीयलक्षणस्येत्यर्थः । श्रतिव्याप्तिरिति । स्वरूपसम्बन्धेन हेत्वधिकरणप्रलयवृत्त्यभावपदेन - साध्याभावस्य – गवात्यन्ताभावस्य धर्त्तुमशक्यत्वादभावान्तरमादायातिव्याप्तिरित्यर्थः ।
न चेति । ' वाच्य' मित्यग्रेतनेनान्वयः, नातिव्याप्तिरिति । सर्वस्यैव घटपटादिध्वंसस्य प्रलयवृत्तित्वेन कालिकसम्बन्धेन कस्याप्यभावस्य स्वरूपेण हेत्व - धिकरणीभूतप्रलयावृत्तित्वादभावाप्रसिद्ध्या नातिव्याप्तिरित्यभिप्रायः ।
गोत्वस्य नित्यतया ध्वंसाप्रसिद्ध्या सृष्टिकालवृत्तित्वविशिष्टगोत्वस्य सृष्टिकाल एव सत्त्वेन तदभावस्य प्रलयवृत्तित्वे बाधकाभावात् नाभावाप्रसिद्ध्याऽतिव्याप्तिवारणमित्याशयेन समाधत्ते - सृष्टिकालेति । तादृशस्य = कालिकसम्बन्धावच्छिन्न प्रतियोगिताकस्य, अत्यन्तपदेनेति । मूलोक्तात्यन्तपदेनेत्यर्थः । नन्वदीपिका
सृष्टिकालवृत्तित्वेति । ननु 'गोमान् गोत्वादिश्यत्र सृष्टिकालवृत्तित्वविशिष्टगोत्वाभावस्य निरवच्छिन्नावच्छेदकताकप्रतियोगिताकत्वाभावेन कथं लक्षणघटकत्वं सम्भवतीति चेन्न । 'निरवच्छिन्नावच्छेदकताकप्रतियोगिता' पदेन साध्यतावच्छेदकनिष्ठ किञ्चिदवच्छिन्नावच्छेदकत्वानिरूपित प्रतियोगिताया एव विवक्षणीयत्वात्, उक्त गोत्वाभावस्य तादृशप्रतियोगिताकतया लक्षणघटकत्वसम्भवात् ।