________________
विवृति-दीपिकालङ्कता।
६५
जागदीशी न च दैशिकविशेषणतया यद्गोध्वंसस्याधिकरणं तत्रैव गवात्यन्ताभावस्य विरोधात्, कालिकसम्बन्धेन गोध्वंसवत्यपि प्रलये,-तदत्यन्ताभावसत्त्वे बाधकाभावान्नातिव्याप्तिरिति वाच्यम् ; प्राचां मते भूतलादिदेशस्येव कालस्यापि दैशिकविशेषणतया गवादिध्वंसवत्त्वात् ।
अत एव त्वक्संयुक्तकाले विशेषणतया वायुस्पर्शनाशस्य प्रहः' शब्दानित्यतायां मित्रैरुक्तः । ___ यद्यप्येवमपि नातिव्याप्तिसम्भवः,-कालिकसम्बन्धावच्छिन्नगवात्यन्ताभावस्यैव प्रलये कालिकसम्बन्धेन वर्तमानत्वात् , ध्वंसादिमति दैशिक
वितिः प्रतियोगितया, प्रतियोग्यधिकरणतया सार्धमत्यन्ताभावस्यैकत्रानवस्थाननियमा. दित्याशयः ।
ननु स्वरूपसम्बन्धेन ध्वंसस्य प्रतियोगिसमवायिदेशे सत्त्वनियमाप्रलये गो. ध्वंसवत्वमवश्यं कालिकसम्बन्धेन वक्तव्यं, प्रलयस्य गोध्वंसप्रतियोगिनां गवां समवायित्वाभावात्,-एवञ्च स्वरूपेण ध्वंसाधिकरणता यत्र तत्रैवात्यन्ताभावस्य प्राचीनैरंनभ्युपगमात् ,-कालिकेन गोध्वंसवति प्रलये गवात्यन्ताभावसत्त्वस्य निराबाधतया गवात्यन्ताभावरूपसाध्याभावस्य लक्षणघटकत्वेन कुतः, कालो गोमान् गोत्वादित्यत्रातिव्याप्तिरिति शङ्कते-न चेति । ___ समाधत्ते-प्राचामिति । कालस्य = महाप्रलयस्य, गवादिध्वंसवत्त्वादिति । न केवलं प्रतियोगिसमवायिदेशस्यैव स्वरूपेण ध्वंसवत्त्वमपि तु भूतलादि. देशस्येव महाप्रलयस्यापि गवादिध्वंसवत्त्वं प्राचीनमतसिद्धमित्याशयः। कालेऽपि स्वरूपसम्बन्धेन ध्वंससत्त्वे मिश्रग्रन्थसंवादमाह-अत एवेति । विशेषणतया = स्वरूपसम्बन्धेन, ग्रहः- प्रत्यक्षम्, अन्यथा कालस्य स्पर्शसमवायित्वाभावेन स्वरूपेण काले वायुस्पर्शनाशस्य प्रत्यक्षमेव न स्यादिति भावः ।
ननु स्वरूपेण गोवंसस्य प्रलयवृत्तित्वे स्वरूपसम्बन्धेनैव साध्याभावस्य-गवा. त्यन्ताभावस्य-प्रलयावृत्तित्वं सम्भवति, कालिकेन तस्य प्रलयवृत्तौ बाधकाभावः, स्वरूपसम्बन्धेन ध्वंसाधिकरणताया एव स्वरूपेणात्यन्ताभावविरोधित्वादिति,हेत्वधिकरणे प्रलये कालिकेन वर्तमानस्य गवात्यन्ताभावस्य प्रतियोगितावच्छेदकतायाः साध्यतावच्छेदके गोत्वे सत्त्वात्कुतोऽतिव्याप्तिरित्याक्षिपति,-यद्यपीति ।
१. 'साक्षात्कार' इति क्वचित्पाठः।