________________
४
सिद्धान्त-लक्षण-जागदीशी।
दीधितिः अथ यदा गोत्वं तदा गौरित्यत्रातिव्याप्तिः, प्रलयस्य गोध्वंसवत्त्वेन गवात्यन्ताभावानधिकरणत्वात् ।
जागदीशी विशिष्टस्वाभावात्मकेन प्रतियोगिना-समं सामानाधिकरण्यादभावसाध्यकाव्याप्तेस्तादवस्थ्य,_ 'यादृशप्रतियोगितावच्छेदकविशिष्टस्यानधिकरणं हेत्वधिकरणं तादृशप्रतियोगितानवच्छेदकत्व'प्रवेशे तु,व्यर्थमेव 'अत्यन्त' पदमितिध्येयम् ।।७।।
गोध्वंसवत्त्वेनेति ।-[प्राचीनमते] गवात्यन्ताभावस्य गोध्वंसविरोधित्वादित्याशयः।
वितिः प्रतियोगिव्यधिकरणाभावाप्रसिद्धिरित्यत आह-याहशेति । व्यर्थमेवेति । तथा च घटाभावाधिकरणकपटाभावभेदस्य घटाभावस्वरूपत्वेऽपि 'यादृशप्रतियोगिता'पदेन घटनिष्ठप्रतियोगितैव धर्तव्या न तु पटाभावनिष्ठा, तदवच्छेदकपटाभावत्वावच्छिन्नाधिकरणताया हेत्वधिकरणे सत्वादित्यत्यन्तपदानुपादानेऽपि घटाभावस्यैव प्रतियोगिवैयधिकरण्यसम्भवादत्यन्त पदं निष्फलमिति भावः ॥७॥
दीधितौ-यदा गोत्वमिति । अत्र 'यदा' 'तदेत्यभिधानं कालिकसम्बन्धेन साध्य हेतुत्वलाभाय ।
अतिव्याप्तिरिति । गोत्वस्य कालिकसम्बन्धेन महाप्रलये सत्त्वात्तत्र च जन्यभावपदार्थस्य गोरवृत्तित्वेन निरुक्तहेतोयंभिचारित्वेनालक्ष्यत्वादतिव्याप्तिरिति. भावः। अतिव्याप्ति सङ्गमयति-प्रलयस्येति । ननु प्रलये गोवंससत्त्वेऽपि गवात्यन्ताभावस्य तत्रावृत्तौ को हेतुरित्यत आह-गवात्यन्तामावस्येति । विरोधित्वादिति । गोर्गोध्वंसस्य, गोप्रागभावस्य च प्राचीनमते गवात्यन्ताभाव
दीपिका वस्तुतो हेत्वधिकरणवृत्तिप्रतियोगितानवच्छेदकत्वस्य साध्यतावच्छेदके विशेषणीयत्वान्न दोषः । वृत्तित्वं-स्वावच्छेदकसम्बन्धावच्छिन्नस्वावच्छेदकावच्छिन्नाधिकरणत्वसम्बन्धावच्छिन्नस्वनिष्ठाऽवच्छेदकताकप्रतियोगिताकभेदवत्त्वसम्बन्धेन, स्वपदं प्रतियोगितापरं । तथा च निरुक्तसम्बन्धेन घटनिष्ठप्रतियोगिताया एव हेत्वाधिकरणे पटे वर्तमानतया तत्प्रतियोगितानवच्छेदकत्वस्य पूर्वक्षणवृत्तित्वविशिष्टघटाभावाभावत्वे सत्त्वेनाव्याप्तिविरहादिति ध्येयम् ।