________________
सिद्धान्त-लक्षण-जागदीशी।
दीधितिः - सर्वेषामेवाभावानां हेतुसमानाधिकरणात्यन्ताभावत्वनिरूपकप्रतियोग्यसमानाधिकरणाभावान्तरात्मकस्य स्वभेदस्य प्रतियोगित्वादभावसाध्यकाव्याप्तश्चेति” सम्प्रदायविदः ।
जागदीशी किन्तु स्वरूपसम्बन्धेनाभावस्य साध्यतायामेवेति सूचयितुमप्रसिद्धिमपहाय 'दुर्लभत्व'मुक्तम् ।
'अत्यन्ताभावत्वनिरूपकप्रतियोगितानवच्छेदकत्व'विवक्षायाः फल. माह,-सर्वेषामेवेति । भावभेदस्यातिरिक्ततास्वीकारादाह, अभावसाध्यकेतिकी-तथा च 'घटभिन्नं पटत्वादि'त्यादौ पटत्वसमानाधिकरणस्य
विटतिः नन्वेवं कुत्र प्रतियोगिव्यधिकरणाभावो दुर्लभ इत्याकाङ्खायामाह-किन्त्विति। स्वरूपसम्बन्धेनेति । तथा च 'धूमाभाववान् वह्वयभावा'दित्यत्र प्रतियोगिव्यधिकरणाभावस्याप्रसिद्धिः, हेतुसमानाधिकरणघटत्वत्वाद्यभावादेः प्रतियोगित्वस्य तदात्मकपटाभावभेदप्रतियोगिनि पटाभावे सत्वात् तादृशपटाभावस्य स्वरूपेणाधिकरणे जलहूदादौ घटत्वत्वाद्यभावस्य वृत्तेरिति तात्पर्यम् ।
दीधितौ-सर्वेषामेवेति । साध्यीभूतानां यावतामभावानामित्यर्थः । अस्य 'प्रतियोगित्वा'दित्यग्रिमेणान्वयः। अभावान्तरात्मकस्य = साध्यीभूततत्तदभावभिन्नो यः प्रतियोगिन्यधिकरणोऽभावस्तदधिकरणकस्य, स्वभेदस्य = साध्यीभूततत्तद. भावभेदस्य, तथा चाभावसाध्यकमात्र एव स्वरूपेणात्यन्ताभावत्वनिरूपकप्रतियोग्यसमानाधिकरणो यस्तत्तत्साध्यस्वरूपाभावभिन्नोऽभावः स एवाधिकरणं यस्यैवम्भूतो यस्तत्तदभावरूपसाध्यभेदः, तत्प्रतियोगितावच्छेदकत्वस्य साध्यताव. च्छेदके सत्त्वादभावसाध्यकेऽव्याप्तिरिति समुदितार्थः ।
निरुक्तार्थ संक्षेपादाह-अत्यन्ताभावत्वनिरूपकेति । ननु भावसाध्यके प्यव्याप्तिः सम्भवति, वह्निभेदस्यापि घटाभावादौ सत्त्वेन घटाभावप्रतियोगिताया वह्वौ सत्खादित्यत आह-भावभेदस्येति । अतिरिक्तत्वस्वीकारादिति । सम्प्रदायविद्भिरिति शेषः। घटभिन्न मिति । तथाच घटभिन्नं पटत्वादि'त्यत्रात्यन्ताभावस्वनिरूपिका या गोत्वत्वाभावीयगोत्वत्वनिष्टा प्रतियोगिता तदाश्रयाधिकरणावृत्तिगोत्वत्वाभावाधिकरणकघटभेदभेदत्य गोत्वत्वाभावरूपतया गोत्वत्वाभावप्रति. योगिताया घटभेदेऽपि सत्त्वात्, तत्प्रतियोगितावच्छेदकत्वस्य घटभेदत्वेऽनपायान वत्यभावसाध्यकेऽव्याप्तिरिति तात्पर्यम् ।