________________
८६
सिद्धान्त-लक्षण-जागदीशी।
दीधितिः वैशिष्ट्यविरहेऽपि घटत्व-पटत्वयोरुभयत्वस्य,-उभयत्वेन तदभावस्य च,-प्रत्यक्षसिद्धत्वात् ।
जागदीशी न च' [अन्यत्र ] विरुद्धोभयत्वावच्छिन्नाभावस्यातिरिक्तत्वेऽपि प्रकृतेऽविरुद्धयोर्भूतत्व-मूर्त्तत्वयोरुभयत्वावच्छिन्नाभावो विशिष्टाभाव एव, समनियताभावयोर्लाघवेनैकत्वादिति वाच्यम् ; तावताऽपि हेतुमतो यादृशप्रतियोगिताश्रयानधिकरणत्वं, तादृशप्रतियोगितानवच्छेदकत्वस्य भूतत्वमूर्त्तत्वोभयत्वेऽनपायादतिव्याप्तेस्तादवस्थ्यादिति भावः । ॐउभयत्वस्येति ।
विटतिः लिङ्गेन निर्देशेऽपि, अभावपदस्य पुंल्लिङ्गतया तदनुरोधेनातिरिक्त इति पुंलिङ्गनिर्देश एव कर्त्तव्य इत्याशयः।
ननु घटत्व-पटत्वोभयाभावस्य विशिष्टाभावाभिन्नत्वेऽपि भूतत्व-मूतत्वोभयाभावस्य भूतत्व-विशिष्टमूर्त्तत्वाभावसमनियततया तयोरैक्यमवश्यमभ्युपगन्तव्यमिति, प्रतियोगित्वाश्रयप्रतियोगिव्यधिकरणस्य भूतत्वविशिष्टमूर्त्तत्वाभावस्य मनसि हेतुसमानाधिकरणस्य प्रतियोगितावच्छेदकमेव भूतत्व-मूतत्वोभयत्वरूपं साध्यतावच्छेदकमतो न तत्रातिव्याप्तिरित्याशङ्कते-न चेति । 'वाच्य'मित्यनेनान्वयः । निरुक्ताभावयोरभिन्नत्वेऽपि प्रतियोगितावच्छेदकभेदेन प्रतियोगिताया भिन्नतया नोक्तरीत्याऽतिव्याप्तिवारणं सम्भवतीत्याशयेन समाधत्ते-तावतापीति । हेतुमतः = हेत्वधिकरणस्य, याडशेति । यद्धर्माविच्छिन्नेत्यर्थः । तादृशेति । तद्धर्माः वच्छिन्नेत्यर्थः । अनपायादिति । तथा च भूतत्वविशिष्टमूर्त्तवत्वावच्छिन्नप्रतियोगित्वाश्रयतादृशविशिष्टमूर्त्तत्वानधिकरणत्वस्यैव मनसि सत्त्वात् , तादृशविशिष्टमूर्त्तत्ववावच्छिन्नप्रतियोगितावच्छेदकं भूतत्वविशिष्टमूर्त्तत्वत्वमेव, न तु साध्यतावच्छेदकभूतत्व-मूतत्वोभयत्वमिति प्रतियोगित्वाश्रयाधिकरणत्वनिवेशे ‘भूतत्व मूर्त्तत्वोभयवान्मूर्तत्वा'दित्यनातिव्याप्तिरस्त्येवेति भावः। ___उभयत्वस्य विशिष्टत्वभिन्नत्वे बीजमाह-दीधितौ-वैशिष्टयविरहेड पीति । वैशिष्ट्यास्याऽप्रसिद्धत्वेपीत्यर्थः । उभयत्वस्येति।
१ "न चान्यत्रोभयाभावस्य विशिष्टाभावादतिरिक्तत्वेपि प्रकृते भूतत्वविशिष्टमूर्त्तत्वामावस्यैव तदुभयत्वावच्छिन्नप्रतियोगिताकत्व"मिति काशी-कलिकातामुद्रितपुस्तकयोः पाठो दृश्यते।