________________
विवृति-दीपिकालङ्कता।
दीधितिः न वा तदवच्छिन्नाभावस्तदवच्छिन्नाभावात् ,
जागदीशी प्रतियोगितावच्छेदकावच्छिन्नत्वाप्रवेशेऽपीत्यर्थः । ननूभयत्वस्य विशिष्टत्वातिरिक्तत्वेऽपि-सहजतः प्रतियोगिव्यधिकरणस्य विशिष्टत्वावच्छिन्नाभावस्य प्रतियोगितावच्छेदकमेवोभयत्वमतो नातिव्याप्तिः, विशिष्टत्वावच्छिन्नाभावस्योभयत्वावच्छिन्नाभावानतिरेकादत आह-ॐन वेतिक । तदवच्छिन्नाभावः, = उभयत्वावच्छिन्नाभावः। तदवच्छिन्नाभावात् = वैशिष्ट्यावच्छिन्नाभावात, लिङ्गव्यत्ययेन 'नातिरिक्त' इत्यनुषज्यते, तथा चातिरिक्त एवेत्यर्थः।
विरतिः 'न वे'ति दीधितिग्रन्थोत्थितौ बीजमाह-नन्विति । सहजत इतीति । अयम्भावः-भवतु भूतत्व-मूतत्वोभयत्वं भूतत्वविशिष्टमूर्तत्वतो भिन्नम्, मा वा भवतु भूतत्व-मूतत्वोभयाभावः प्रतियोगित्वाश्रयप्रतियोगिव्यधिकरणः, तथापि भूतत्वविशिष्टमूर्तस्वाभावस्य प्रतियोगिनो मूर्त्तत्वातिरिक्तस्य तादृशविशिष्टमूर्त्तत्वस्याधिकरणे पृथिव्यादापवर्तमानस्य हेत्वधिकरणे मनसि सत्त्वाकुतः 'प्रतियोगित्वाश्रयाधिकरणावृत्तित्व'मात्रनिवेशे 'भूतत्व-मूतत्वोभयवान् मूर्तत्वा'दित्यत्रातिव्याप्तिः सम्भवतीति । ____ ननु निरुक्तप्रतियोगिव्यधिकरणस्य भूतत्वविशिष्टमूर्त्तत्वाभावस्य हेत्वधिकरणे मनसि सत्त्वेऽपि,-तत्प्रतियोगितानवच्छेदकमेव भूतत्व-भूतत्वोभयत्वमिति कुतोऽतिव्यातिवारणमित्यत आह-तत्प्रतियोगितेति । भूतत्वविशिष्टमूर्त्तत्वाभावप्रतियोगितावच्छेदकं भूतत्व-मूतत्वोभयत्वं कथमित्याकाङ्क्षायामाह-विशिष्टत्वेति । अनतिरेकादिति । भूतत्वविशिष्टमूर्त्तत्वाभावस्य, भूतत्व-मूतत्वोभयाभावस्य च तुल्याधिकरणवृत्तित्वेनैक्यादित्यर्थः। तदवच्छिन्नाभावादिति । तथा चोभयत्वं यथा विशिष्टत्वाद्भिन्नं तथोभयाभावोऽपि विशिष्टाभावाद्भिन एवेति,-भूतत्वविशिष्टमूर्त्तत्वाभावस्य तादृशप्रतियोगिव्यधिकरणहेतुसमानाधिकरणत्वेऽपि, तदभावप्रतियोगितानवच्छेदकत्वस्य भूतत्व-मूतत्वोभयत्वरूपसाध्यतावच्छेदके सत्त्वान्न 'भूतत्वमूतत्वोभयवान् मूर्त्तत्वा'दित्यत्र 'प्रतियोगित्वाश्रयाधिकरणावृत्तित्व'निवेशमात्रेणा. तिव्याप्तिवारणमिति भावः । लिङ्गव्यत्ययेनेति । पूर्वमनतिरिक्तमिति नपुंसक