________________
सिद्धान्त-लक्षण-जागदीशी।
जागदीशी तया प्रतिबन्धकताच्छेदको यः सम्बन्धस्तेन हेत्वधिकरणवृतित्वमभावस्य विवक्षितमित्यदोषः,
तथा च द्रव्यत्वाभाववान् जातित्वादित्यादौ विशेषणताविशेषसम्बन्धेन जातित्वाभावबुद्धेविषयविधया प्रतिबन्धकतावच्छेदको यः स्वरूपसम्बन्धः तेन जातित्वस्वरूपाभावस्य [तत्र] प्रसिद्धत्वादिति भावः ।
वितिः च्छिन्नप्रकारताशालितदभावप्रतियोगिमानित्याकारकबुद्धेरित्यर्थः । विषयतया = प्रकारतया, प्रतिबन्धकतेति । प्रतिबन्धकतावच्छेदकप्रकारतावच्छेदको यः सम्बन्ध इत्यर्थः । तेन = तेन सम्बन्धन, तथा च तत्तदभावप्रतियोगितावच्छेदकावच्छिन्नप्रकारताशालिबुद्धित्वावच्छिन्न प्रतिबध्यतानिरूपितप्रतिबन्धकतावच्छेदकीभूता या प्रकारता तदवच्छेदकसम्बन्धेन हेत्वधिकरणटत्तित्वमभावस्य वक्तव्यमिति समुदितार्थः।
पूर्वोक्तातिव्याप्तिद्वयं निरस्यति-तथा चेति । एवञ्च द्रव्यत्वाभाववान् जातित्वादित्यत्र हेतुभूतजात्यधिकरणे वर्तमानो यो जातित्वाभावाभावः, तत्प्रतियोगी यो जातित्वाभावः, साध्यतावच्छेदकस्वरूपसम्बन्धेन तद्वत्ताबुद्धौ ‘स्वरूपेणैव जातित्ववानिति ज्ञानस्य प्रतिबन्धकतया तत्प्रतिबन्धकतावच्छेदकीभूता या जातित्वनिष्ठा प्रकारता, तदवच्छेदकस्वरूपसम्बन्धेन हेत्वधिकरणे जातित्वाभावाभावस्य जातित्वस्वरूपस्य विद्यमानत्वाल्लक्षणसमन्वयः सम्भवति, सत्तावान् जातेरित्यत्र सत्ताभावो न लक्षणघटकः, समवायेन सत्ताभाव-प्रतियोगि-सत्तावत्त्वबुद्धौ स्वरूपेण सत्ताभाववत्ताज्ञानस्य प्रतिबन्धकतया तदवच्छेदकसत्ताभावनिष्ठप्रकारतावच्छेदको यः स्वरूपसम्बन्धस्तेन सम्बन्धेन जात्यधिकरणे सत्ताभावस्यावर्त्तमानत्वात् , एवं कालिकसम्बन्धावच्छिन्नप्रतियोगिताकघटत्वाभावाभाववान् गगनत्वादित्यत्रापि साध्याभावो न लक्षणघटकः, तदभावप्रतियोगिसाध्यवत्ताबुद्धेः प्रतिबन्धकताव. च्छेदककालिकसम्बन्धेन गगने वृत्तित्वाप्रसिद्धः, अतः स्वपदेन गगनत्वाभावाभावमादाय तत्प्रतियोगिगगनत्वाभावबुद्धौ ‘स्वरूपेण गगनत्ववानि'त्याकारकज्ञानस्य प्रतिबन्धकतया तदवच्छेदकीभूता या गगनत्वनिष्ठा प्रकारता तदवच्छेदकस्वरूप. सम्बन्धेन गगने हेत्वधिकरणे गगनत्वरूपाभावस्य सत्त्वाल्लक्षणसमन्वयसम्भवान्न कोऽपि दोष इत्यवधेयम्।