________________
G
सिद्धान्त-लक्षण-जागदीशी ।
जगदीशी
द्रव्यत्वस्वरूपस्य साध्याभावस्य 'दैशिकविशेषणतया वृत्तित्वविरहात्,. द्रव्यभिन्नत्वप्रकारकप्रमाविशेष्यत्वाभावस्यापि द्रव्यत्वानतिरेकात् ।
न चाभावत्वप्रतीतेः प्रमात्वरचार्थमभावाभावस्यातिरिक्ततयोक्ताति-व्याप्यादिवारणमिति वाच्यम्; 'अभावत्वञ्चे' त्यग्रिमग्रन्थेन भावाभावसाधारणस्याभावत्वस्य निर्वचनविरोधापत्ते,
विसृतिः
द्रव्ये सत्त्वेन तत्प्रतियोगितावच्छेदकमेव द्रव्यत्वाभावत्वमिति, हेत्वधिकरणवृत्तितायाः : स्वरूपसम्बन्धेन विवक्षणेऽपि न द्रव्यत्वाभाववान् सत्त्वादित्यत्रातिव्याप्तिरित्यत आह- - द्रव्यभिन्नत्वेति । तथा च द्रव्यभिन्नत्वप्रकारकप्रमाविशेष्यताया अभावस्य द्रव्यमात्रे सत्त्वात्तस्य च लाघवाद् द्रव्यत्वस्वरूपत्वेन द्रव्ये स्वरूपसम्बन्धेन वृत्तित्वासम्भवादवश्यं घटाभावादिकमादायातिव्याप्तिः सम्भवतीति भावः ।
ननु 'द्रव्यत्वाभावाभावोऽभाव' इति प्रमात्मकप्रत्ययानुरोधार्थं द्रव्यत्वाभावा-भावो न द्रव्यत्वस्वरूपोऽपि तु द्रव्यत्वाभावाभावरूप एवेति, - द्रव्यत्वाभावाभावात्मकस्याभावरूपस्य हेत्वधिकरणे द्रव्ये स्वरूपसम्बन्धेन सत्वात्तत्प्रतियोगिताव: च्छेदकमेव द्रव्यत्वाभावत्वमिति - कुतो व्याप्यवृत्तिसाध्यकस्थले प्रतियोगिवैयधिकरप्रवेशस्यावश्यकत्वमित्याशङ्कते - -न चेति । प्रमात्वरक्षार्थमिति । द्रव्यत्वाभावा-भावस्य द्रव्यत्वस्वरूपत्वे तस्य भावत्वेन 'द्रव्यत्वाभावाभावोऽभाव' इति प्रत्ययस्य भ्रमत्वापत्तिः स्यादिति भावः ।
समाधत्ते - श्रभावत्वश्चेति । अग्रिमग्रन्थेन - 'इदमिह नास्ति', 'इदमिदं ने' - त्याद्यग्रिमदीधितिग्रन्थेन, भावाभावसाधारणस्य = भावेऽभावेऽपि वर्त्तमानस्य, निर्वचनविरोधादिति । तथा चाभावमात्रेऽभावत्व स्वीकारेऽग्रिमदीधितिग्रन्थो
दीपिका
द्रव्यभिन्नत्वप्रकारकेति । ननु द्रव्यत्वभिन्नत्वप्रकारकप्रमाविशेष्यत्वाभावस्यापि प्रतियोगितावच्छेदकं द्रव्यत्वभिन्नत्वप्रकारकप्रमाविशेष्यतास्वमेवेति तदन्यत्वस्य साध्यतावच्छेदके द्रव्यत्वाभावत्वे सत्त्वादव्याप्तिवारणासम्भवात् तादृशाभावस्य द्रव्यत्व. स्वरूपत्वाभ्युपगमो निरर्थक इति चेच्छृणु, पूर्वमभाव साध्यकस्थले द्रव्यत्वाभाववान् सत्त्वादित्यत्राव्याप्तिरभिहिता, इदानीञ्च भावसाध्यकस्थले द्रव्यभिन्नत्वप्रकारकप्रमाविशेष्यत्ववान् सत्त्वादित्यत्रातिव्याप्तिसङ्गमनार्थं द्रव्यभिन्नत्वप्रकारकप्रमाविशेष्यत्वाभावस्य द्रव्यत्वस्वरूपत्वमादृतमिति न दोषलेशोऽपीति ।
१ 'दैशिके 'ति बहुषु पुस्तकेषु न पठ्यते ।