________________
- विवृति-दीपिकालङ्कता।
जागदीशी अत्र यद्यपि, व्याप्यवृत्तिसाध्यकस्थले तदप्रवेशे सत्तावान् जातेरित्यादावव्याप्तिः, साधनवति स्पन्दादौसमवायेन सत्ताभावस्यापि कालिकादिसम्बन्धेन वृत्तेः ।
न चाभावे हेत्वधिकरणवृत्तित्वस्यभावीयविशेषणतया विवक्षणानोक्तदोषः; तथा सत्यपि द्रव्यत्वाभाववान् सत्त्वादित्यत्रातिव्याप्तेः ।
विशतिः नित्यपदानुक्तौ-जन्यगुणे कालिकसम्बन्धेन संयोगरूपसाध्याभावस्य सत्त्वात्प्रतियोगिवैयधिकरण्यमव्याप्तिवारकतयाऽवश्यं सप्रयोजनं भवतीति तदुपादानम् । ननु 'सत्तावान् जाते रित्यत्र सत्तारूपस्य साध्यस्य व्याप्यवत्तित्वात्तत्र यदि हेत्वधिकरणवृत्त्यभावे 'प्रतियोगिवैयधिकरण्य' न दीयते, तदा 'समवायेन सत्ता नास्ती'त्यभावस्य जातिरूपहेत्वधिकरणे स्पन्दे कालिकसम्बन्धेन सत्त्वात्तत्प्रतियोगिताववच्छेदकमेव सत्तात्वमित्यव्याप्तिरतो व्याप्यवृत्तिसाध्यकस्थलेऽपि 'प्रतियोगिवैयधिकरण्य'मभावविशेषणं देयमेव, तथा सति सत्ताभावस्य -प्रतियोगिभूतायाः सत्तायाः समवायेनाधिकरणे स्पन्दे-कालिकेन सत्त्वानोक्ताभावस्य प्रतियोग्यधिकरणावृत्तित्वरूपं प्रतियोग्यसामानाधिकरण्य'मित्याशङ्कते-यद्यपीति । कालिकादिसम्ब. -मधेनेति । हेत्वधिकरणवृत्तित्वस्य सम्बन्धविशेषेणाविवक्षितत्वादिति भावः।
ननु व्याप्यवृत्तिसाध्यकस्थले स्वरूपेण हेत्वधिकरणे वर्तमानो योऽभावस्तप्रतियोगितानवच्छेदकत्वमेव साध्यतावच्छेदके विवक्षणीयम् , एवञ्च सत्ताभावस्य स्वरूपसम्बन्धेन जात्यधिकरणे स्पन्दादौ कुत्राप्यसत्त्वाद् घटाभावादिकमादायैव 'सत्तावान् जाते'रित्यत्र लक्षणसमन्वयः सम्भवतीति,-न व्याप्यवृत्तिसाध्यके प्रतियो. गिवैयधिकरण्यं देयमित्याशङ्कते-न चेति। 'नोक्तदोष' इत्यनेनान्वयः । अभावीयविशेषणतया स्वरूपसम्बन्धेन, नोक्तदोषः = सत्तावान जातेरित्यत्र नाव्याप्तिः, समाधत्ते-तथा सतीति । द्रव्यत्वाभाववानिति । तथा च द्रव्यत्वाभाववान् सत्त्वादित्यत्र, सत्ताधिकरणे द्रव्ये साध्याभावस्य द्रव्यत्वाभावाभावस्य द्रव्यत्वरूपस्य,-समवायसम्बन्धेन वर्तमानतया स्वरूपसम्बन्धेनासत्त्वात् ,-स्वरूपेण वर्त्तमानस्य घटाभावस्य प्रतियोगितानवच्छेदकताया द्रष्यत्वाभावत्वरूपे साध्यतावच्छेदके सत्त्वादतिव्याप्त्यापत्तिरतो, हेत्वधिकरणवृत्तित्वं स्वरूपसम्बन्धन विवक्षि. -तुमशक्यमेवेत्याशयः।
ननु 'द्रव्यभेदवान्' इति 'द्रव्यभिन्न मिति वा यत्प्रमात्मकं ज्ञानं, तज्ज्ञानीय· विशेष्यताया गुणादिनिष्ठाया अभावस्य स्वरूपसम्बन्धेन सत्ताधिकरणे