________________
Go
सिद्धान्त-लक्षण-जागदीशी।
जागदीशी न च 'इदानीं तन्तुषु न घट' इत्यादिप्रतीतेरेतत्कालावच्छेदेन तन्तुज्वेव घटाभावो विषयो,-न [तु] तन्त्ववच्छेदेनैतत्काले तथेति वाच्यम् ।
तन्तुषु घटाभावस्य व्याप्यवृत्तितया एतत्कालस्य तदवच्छेदकत्वावगाहने उक्तप्रतीतेर्धमत्वापातात् । ..
न च तथाऽप्येतत्कालवृत्तिघटाभाव एव वन्तुषु भासतां तत्रेति वाच्यम् ; कालस्य प्रतियोगिकुनावग्रहेऽपि तादृशप्रतीतेस्तन्त्ववच्छेदेनः संमये घटाभावावगाहित्वस्यानुभवसिद्धत्वादिति' भावः ।
विरतिः धिकरणकपालरूपे देशे।
नचेति । वाच्यमिति परेणान्वयः। एतत्कालावच्छेदेन = घटवत्कालावच्छेदेन, घटाभावो विषय इति। तथा च नोक्तप्रतीत्या घटानधिकरणतन्तुरूपदेशावच्छेदेन घटवति काले घटाभावसिद्धिर्भवतीति भावः। तथा = घटाभावो विषयः। ___समाधत्ते- तन्तुन्विति। तदवच्छेदकेति । व्याप्यवृत्तेरवच्छेदकत्वास्वीकारादिति भावः । भ्रमत्वापातादिति। एतत्कालावच्छिन्नत्वाभाववत्येतत्कालावच्छिन्नत्वप्रकारकतयेदानीन्तन्तुषु न घट इतिप्रतीतेभ्रंमत्वसम्भवादित्यर्थः । तथापि - व्याप्यवृत्तेरवच्छेदकत्वासम्भवेऽपि, एतत्कालवृत्तीति । एतत्कालवृत्तिर्यो घटस्तदभावस्तन्तुष्पित्यर्थः । भासतां = विषयीभवतु । तत्र = 'इदानीन्तन्तुषु न घट' इति प्रतीतौ, प्रतियोगिकुक्षावग्रहेऽपि = कालटत्तित्वेन घटादेः प्रतियोगिनो ज्ञानाभावकालेऽपि, तादृशप्रतीतेः = 'इदानीं तन्तुषु न घट' इति प्रतीतेः,. उदयादिति शेषः।
अनुभवसिद्धेति । अयम्भावः-यस्मिन् काले कालवृत्तित्वेन घटादिज्ञान न भवति तस्मिन्नपि काल 'इदानीं तन्तुषु न घट' इति प्रतीत्युदयात्,-तादृशप्रतीतेन तावत्कालवृत्तिघटाभावो विषयः, कालवृत्तिताया अग्रहादिति, तत्काल उक्तप्रतीतेविषयोऽवश्यं तन्त्ववच्छेदेन घटवति काले घटाभाव इत्येव स्वीकरणीयमिति,एतदनुरोधेनैव प्रतियोगिमति काले प्रतियोग्यनाधारदेशावच्छेदेन प्रतियोग्यभावः स्वीकर्तव्य इति ।
१ 'आनुभविकत्वादिति काशीमुद्रितपाठः ।