________________
विवृति-दीपिकालङ्कृता ।
दीधितिः
एवं प्रतियोगिमतोरपि काल- देशयोर्देश - कालभेदावच्छेदेन तदभावः,
&&
जगदीशी
-
यत्सम्बन्धवान् स तत्सम्बन्धेन तद्वानिति' व्याप्त्या ( ऽपि ) कुण्डादिसंयोगिनो बदरादेः संयोगेन कुण्डादिमत्त्वापत्तेरित्युक्तावाद, एवमिति । ( भेद:: विशेषः । ) घटवत्यपि काले 'इदानीं तन्तौ न घट' इति प्रतीत्या तन्त्ववच्छेदेनैतत्काले घटाभाव:, तथा घटवत्यपि कपाले घटनाशदशायां, – 'इदानीमिह कपाले न घट' इत्याद्यनुभवात् तत्कालावच्छेदेन' [कपाले] घटस्य सामान्याभावः सिध्यति ।
-
CORON
विसृतिः
यः = पर्वतादिः, यदीययत्सम्बन्धवान् = प्रतियोगित्वानुयोगित्वान्यतरसम्बन्धेन वह्नयादिविशिष्टसंयोगादिसम्बन्धवान् । तत्सम्बन्धेन = संयोगसम्बन्धेन, तद्वान्= वह्निमान् इति व्याप्त्याऽपि = इत्याकारक सामान्यव्याप्त्याऽपि, कुण्डादिसंयोगिनः = तादृशसंयोगप्रतियोगिनः, बदरादेरिति । तथा च यत्पदेन बदरमादाय तत्र कुण्डसंयोग सत्वेन 'बदरादिः कुण्डादिमानि' त्यापत्तिः स्यात्, न चेष्टापत्तिरनुभवविरोधादिति भावः । भाह = 'प्रतियोग्य सामानाधिकरण्या' नुक्तौ स्थलान्तरेऽव्याप्तिमाह ।
दीधितौ - एवमिति । प्रतियोगिमतोः =प्रतियोग्यधिकरणीभूतयोः, देश-कालभेदावच्छेदेनेति । यथाक्रमं काले प्रतियोग्यनधिकरणदेशावच्छेदेन, देशे च प्रतियोग्यनधिकरणकालावच्छेदेनेत्यर्थः । तदभावः = प्रतियोगिनामभावः, वर्त्तत इति शेषः ।
एतदेव स्पष्टयति — घटवत्यपीति । घटाधिकरणीभूते काल इत्यर्थः । तन्त्त्रवच्छेदेन = घटाभावप्रतियोगिघटानधिकरणतन्तुरूपदेशावच्छेदेन, एतत्काल इति । तथा च घटवत्येतत्काले घटानधिकरणतन्त्ववच्छेदेन ' इदानीं तन्तौ न घट' इति प्रतीत्या घटाभावः सिध्यतीति भावः ।
ननु प्रतियोगिमति काल उक्तप्रतीत्या घटाभावः सिध्यतु, प्रतियोगिमति देशे -कथं प्रतियोग्यभावः स्थास्यतीत्यत आह- - तथेति । घटवत्यपि कपाले = घटाधि- करणीभूते कपालरूपे देशे, 'घटनाशदशाया' मित्यनेन - घटानधिकरणत्वं सूचितम् । तत्कालावच्छेदेन = घटानधिकरणीभूत घटनाशकालावच्छेदेन, कपाले = घटा१ 'तत्कालावच्छेदेन घटसामान्याभावः सिध्यती 'ति काशीमुद्रितपाठः ।