________________
विवृति-दीपिकालङ्कृता ।
दीधितिः
७१
तथा च तत्तत्साध्यकाव्याप्तिवारणाय तत् । नोपादेयश्च, -
जगदीशी
* तथा चेति । — गुणवत् संयोगवद्वा द्रव्यत्वात्, वह्निमान् धूमात्, समयो घटवान् एतत्कालत्वात्, कपालं घटवत् घटध्वंसादित्यादावव्याप्तिवारणायेत्यर्थः । * तदिति समानाधिकरणान्तमित्यर्थः । नोपादेयश्चेति येन रूपेण येन सम्बन्धेन च यद् व्याप्यवृत्ति तेन सम्बन्धेन [ तेन रूपेण ] तत्साध्यतायां नोपदेयमित्यर्थः । तेन संयोगविवृतिः
१
समयो घटवानिति । 'समय' इति पक्षनिर्देशः कालिकेन साध्यतालाभाय, प्रतियोगिवैयधिकरण्यानुपादान एतत्कालत्वाधिकरण एतत्काले, -तन्त्ववच्छेदेन घटाभावस्य सत्त्वात् ; तत्प्रतियोगितावच्छेदकमेव साध्यतावच्छेदकं घटत्वमित्यव्याप्तिः ।
एवं — कपालं घटवद् घटध्वंसादित्यत्रापि घटध्वंसाधिकरणे घटध्वंसरूपहेतुमति कपाले घटानधिकरणघटनाशकालावच्छेदेन घटाभावस्य सच्चात्, -तत्प्रतियोगितावच्छेदकमेव साध्यतावच्छेदकं घटत्वमित्यव्याप्तिरतः, -' प्रतियोग्यसमानाधिकरण्यम. भावविशेषणं, तदुपादाने तु निरुक्तघटाभावस्य प्रतियोग्यधिकरणे काले, -कपाले च वर्त्तमानत्वान्नोक्ताभावो लक्षणघटक इति भावः । असमानाधिकरणान्तमिति । प्रतियोग्यसमानाधिकरणान्तमित्यर्थः । येन रूपेणेति । तृतीयार्थो वैशिष्टयम्, अन्वयश्चास्य 'य' इत्यनेन । येन सम्बन्धेनेति । तृतीयार्थः प्रतियोगित्वम्, अन्वयश्चास्य 'य' इत्यनेन । तथा च षाडशधर्मविशिष्टो यो येन सम्बन्धेन व्याप्य - वृत्तिः= स्वाधिकरणे स्वरूपसम्बन्धेन वर्त्तमानस्याभावस्याप्रतियोगी, भवतीति शेषः, स्वं = व्याप्यवृत्तित्वेनाभिमतम् । तेन सम्बन्धेनेति । तादृशधर्मावच्छिन्नतत्सम्बन्धावच्छिन्न साध्यतायां 'प्रतियोगिवैयधिकरण्य' मभावविशेषणं नोपादेयमिति फलितार्थः
1
'येन रूपेणे' त्यस्य फलमाह - तेनेति । तथा च संयोगी द्रव्यत्वादित्यत्र संयोगस्वेन रूपेण समवेतस्य संयोगस्य साध्यतास्थलेऽपि द्रव्यत्वाधिकरणे गगनादौ संयोगाभावसत्त्वादन्याप्तिवारणाय 'प्रतियोगिवैयधिकरण्यं' देयमेव, किन्तु समवेतत्वेन समवेतमानस्य समवायेन साध्यतायां 'समवेतवान् द्रव्यत्वा' दित्यत्र समवेतसामान्याभावस्य द्रव्यत्वाधिकरणे हेतुमत्य सत्त्वादव्याप्तिविरहेण ' प्रतियोगिवैयधिकरण्यं' न निवेशनीयमिति भावः ।
१ येन सम्बन्धेन येन रूपेणेत्यादिक्रमेणैव बहुषु पुस्तकेषु पाठो लभ्यते ।