________________
विवृति-दीपिकालङ्कृता ।
दीधितिः
प्रलयावच्छेदेन गगनादौ संयोगस्य - सामान्याभावो वर्त्तते,
तथा धूमवत्यपि विरहो दहनस्य, -
-
'इह पर्वते नितम्बे हुताशनो, न शिखरे' इति प्रतीतेः संयोगेन
द्रव्यस्याप्यव्याप्यवृत्तित्वात्,
६७
―
1
जगदीशी
-मतः स्थलान्तरमाह, - प्रलयावच्छेदेनेवि - तदानीं जन्यभावसत्त्व - प्रलय एव व्याहन्येतेति भावः । ननु महाप्रलये मानाभावात्तदवच्छेदेनेत्ययुक्तमत आह, तथेति ।
विटति:
ननु पर्वते वह्नयभावस्य सत्त्वं न प्रामाणिकमित्यत आह-इहेति । तथा चोक्तप्रतीतिबलादेव पर्वते वह्नयभावो वर्त्तत इति भावः । गुणवान्द्रव्यत्वादित्यत्राव्याप्तिसम्भवे स्थलान्तरानुसरणबीजमाह - नन्विति [ जा. पृ. ६६] संनिकर्षाद्यभावात् == 'इन्द्रियसंयुक्तविशेषणता रूपसंनिकर्षस्य प्रत्यक्षकारणस्य विरहात् ।
ननु प्रथमक्षणावच्छिन्ने घटे 'गुणो नास्ती'ति व्यवहारादेव तादृशघटादौ गुणसामान्याभावोऽस्त्येवेत्यत आह-- व्यवहारादिकञ्चेति [ जा. पृ. ६६.] । 'शब्दप्रयोगात्मकव्यवहारं प्रति व्यवहर्त्तव्यज्ञानस्य हेतुत्वात् 'प्रथमक्षणावच्छिन्नो 'घटो गुणाभाववानिति ज्ञानस्यासिद्ध्या व्यवहारोऽपि न सिध्यतीत्याशयः ।
न चोत्पत्तिक्षणावच्छिन्नो घटो गुणसामान्याभाववान् तद्वत्वेन प्रतीयमानत्वा-दित्यनुमानमेव तादृशघटे गुणसामान्याभावे मानमिति वाच्यम् । तद्वत्त्वेन प्रतीय• मानत्वरूप हेतोरनिश्चयेन कारणाभावादनुमित्य सम्भवात् ।
न च घटो 'गुणसामान्याभाववानुत्पत्तिकालीनत्वादि' त्यनुमानमेव गुणसामान्याभावे मानमिति वाच्यम् । उत्पत्तिकालीनत्वस्य सामान्यतो, हेतुत्वे, - तस्य च परमाणुसाधारणतया तत्र गुणसामान्याभावस्यासत्त्वेन व्यभिचारापत्तेः, स्वोत्पत्तिकाली· नत्वस्य हेतुत्वे तु - तस्य तद्वयक्तिविश्रान्ततया पक्षमात्रवृत्तित्वेन दृष्टान्ताभावादप्रयोजकत्त्वापत्तेरिति ध्येयम् । स्थलान्तरमाहेति । संयोगी द्रव्यत्वादित्यत्राव्याप्ति- माहेत्यर्थः । तदानीं = महाप्रलयकाले, जन्यभावसत्त्व इति । निरुक्तसंयोगरूपजन्यभावसत्त्व इत्यर्थः । जन्यभावानधिकरणत्वस्यैव महाप्रलयपदार्थत्वादिति भावः ।
पुनराशङ्कते - नन्विति । मानाभावादिति । युगपद् ब्रह्माण्डप्रलयस्य - सर्ववाद्यसिद्धत्वादिति भावः । तथेतीति । 'तथा धूमवत्यपि विरह' इत्यादिग्रन्थेन