________________
ર
सिद्धान्त- लक्षण - जागदोशी ।
दीधितिः
नवीनास्तु – 'उत्पत्तिकालावच्छेदेन घटादौ गुणस्य, -
जगदीशी
- त्यभिप्रायकोऽयं प्रन्थ' इत्याहु: ।
*गुणस्येति । - ' सामान्याभाव' इति परेणान्वयः । ननु 'आद्यचणे घटे गुणो नास्तीति प्रत्यक्षमसम्भवि; सन्निकर्षाद्यभावात्, 'प्रथमक्षणे घटादौ' गुणो नास्ती' ति व्यवहारादिकञ्च सन्दिग्धप्रामाण्यकविटति:
सामान्याभावावच्छेदकत्वसाधन इत्यर्थः । अयं ग्रन्थः = 'यथा चे 'त्यादिदीधिति ग्रन्थः । निरुपाधिकत्वस्यापि प्रयोजकत्वसम्भवेनाप्रयोजकत्वाभिधानमसङ्गतमित्यस्वरसः केचिदित्युक्तया सूचितः ।
'प्रतियोग्य समानाधिकरण' पदस्य नवीनमतसिद्धां व्यावृत्तिं प्रदर्शयतिनवीनास्त्विति । उत्पत्तिकालावच्छेदेनेति । तथा च प्रतियोगिवैयधिकरण्यस्याभावाविशेषणत्वे गुणवान्द्रव्यत्वादित्यत्रोत्पत्ति कालावच्छेदेन हेत्वधिकरणे घटे 'गुणो नास्तीत्यभावस्य सत्वेन तत्प्रतियोगितावच्छेदकतायाः साध्यतावच्छेदके गुणत्वे सत्त्वादव्याप्तिः ।
एवं 'संयोगी द्रव्यत्वादित्यत्रापि द्रव्यत्वाधिकरणे गगने प्रलयावच्छेदेन संयोगाभावसत्त्वात्, तदभावप्रतियोगितावच्छेदकतायाः साध्यतावच्छेदके संयोगत्वे सत्त्वादव्याप्तिः ।
एवं - वह्निमान् धूमादित्यत्रापि धूमाधिकरणे पर्वते शिखरावच्छेदेन वह्नयभावसत्त्वात् तत्प्रतियोगितावच्छेदकत्वस्य वह्नित्वरूपे साध्यतावच्छेदके सत्वादव्याप्तिः, - अतः प्रतियोग्य सामानाधिकरण्यमभावविशेषणमवश्यं वक्तव्यं ।
तदुपादाने तु,–गुणाभावप्रतियोगिनो गुणस्याधिकरणे घट उत्पत्तिकालावच्छेदेन गुणसामान्याभावस्य सत्त्वान्नोक्त गुणसामान्याभावः प्रतियोग्यधिकरणावृत्तिः,
एवं संयोगाभावोऽपि महाप्रलयावच्छेदेन संयोगरूपप्रतियोग्यधिकरणीभूतगगनवृत्तिः,
एवं - भावोऽपि शिखरावच्छेदेन वह्निरूपप्रतियोग्यधिकरणवृत्तिरेव, न तु प्रतियोग्यधिकरणाष्टत्तिरित्यभावान्तरं घटाभावादिकमादाय लक्षणसमन्वयसम्भव इति समुदितार्थः ।
१ 'घटे' इति काशीमुद्रितपाठः ।