________________
विवृति-दीपिकालङ्कता।
दीधितिः वहिसामानाधिकरण्यस्य वा प्रतिधुमं,-भिन्नत्वेऽपि; दण्डत्वं, धूमत्वं वा तत्सामान्यस्यावच्छेदकं, तथैव 'संयोगसामान्यस्यावच्छेदकं द्रव्यत्वादिक'मित्यस्यापि सुवचत्वाचेति-सम्प्रदाय विदः ।
. जागदीशी किन्तु अव्यवहितपूर्ववर्तिजातीयतायाः, सा च न' भिन्ना, अतः संयोगस्थल एवानुरूपं दृष्टान्तमाह, वह्नीतिका तत्सामान्यस्येति । घटपूर्ववर्तित्वसामान्यस्य, वह्निसामानाधिकरण्यसामान्यस्य चेत्यर्थः । __केचित्तु-'कथितव्याप्तावप्रयोजकत्वम् , अन्यथा तदभावानवच्छेदकत्वहेतुना तदवच्छेदकत्वमेव कुतो न वृक्षत्वादेः साध्यते, वृक्षत्वाद्यवच्छेदेन तत्तत्संयोगव्यक्तीनामसत्त्वेऽपि संयोगसामान्यस्य सम्भवादि
वितिः अन्यथा पटत्वादेरपि घटाव्यवहितपूर्ववर्तितावच्छेदकत्वं स्यादिति भावः । अव्यवहितपूर्ववर्तिजातीयतायाः= घटाव्यवहितपूर्ववर्तिजातीयतायाः, तादृशजातीयत्वच,-घटाव्यवहितप्राक्क्षणावच्छेदेन घटाधिकरणवृत्त्यभावप्रतियोगितानवच्छेदकधर्मवत्त्वरूपं, तादृशश्च धर्मो दण्डत्वादिः, तादृशधर्मवत्वरूपाया जातीयताया अभिन्नायाः सकलदण्डादिसाधारणतया, तदभाववति दण्डत्वादेरवर्तमानत्वात् ,तस्या एवावच्छेदकं दण्डत्वमिति भावः ।
अत इति । निरुक्तदृष्टान्तस्यासम्भवादित्यर्थः, अनुरूपमिति । संयोगस्य विभिन्नत्वेन वह्विसामानाधिकरण्यस्यापि विभिन्नतया,-तुल्यदृष्टान्तसम्भवादिति भावः। __. “वृक्षत्वं संयोगसामान्याभावावच्छेदक-संयोगसामान्यानवच्छेदकत्वादित्यादेरनुकूलतर्कविरहेणाप्रयोजकत्वात् , तेन हेतुना न संयोगाभावावच्छेदकत्वं सिध्यति. अन्यथा तुल्यन्यायेन 'वृक्षत्वं संयोगसामान्यस्यावच्छेदक-संयोगसामान्याभावानवच्छेदकत्वा'दित्यादिहेतुना संयोगसामान्यावच्छेदकत्वमपि सम्भवतीति दीधितिकता 'यथाचे'त्यादिना प्रदर्शितमिति" केचिद्वदन्ति, तन्मतमुपन्यस्यति-केचित्त्विति । अन्यथेति। कथञ्चित्प्रयोजकत्वमङ्गीकृत्य वृक्षत्वे निरुक्तहेतुना संयोग
१'सा चाऽभिन्ने ति कचित्पाठ उपलभ्यते ।