________________
सिद्धान्त लक्षण-जागदीशी।
जागदीशी [ केचित्तु 'एकावच्छेदेने त्यस्य, अवच्छेदकतासम्बन्धेन तदभावाधिकरणीभूतदेशस्यावच्छेद्यतासम्बन्धेनाभाववत्त्वेनेत्यर्थः, तथा च तद्विशिष्टयावद्विशेषाभाववत्त्वमुपाधिरित्याहुस्तञ्चिन्त्यम् ।] ___ यत्तु एकावच्छेदेने'त्यस्य परस्परानवच्छेदकानवच्छेद्यवृत्तिकत्वविशिटेत्यर्थमाहुः, तन्न; व्याप्यवृत्तिरूपादीनां विशेषाभावस्यावच्छेदकाप्रसिद्ध्या तदनवच्छेदकस्याप्यसम्भवेन तत्रैव साध्याव्यापकत्वतादवस्थ्यादिति दिक् ।
वितिः केचित्त्विति । आहुरित्यनेनान्वयः। परस्परेति । परस्परस्य-तत्तत्संयोगाभावस्य, योऽनवच्छेदको देशः; तदनवच्छिन्नवृत्तिकत्वविशिष्टयावद्विशेषाभावस्योपाधित्वमित्याशयः । वस्तुतस्तत्तदभावानवच्छेदकानवच्छिन्नत्वे सति तत्तदभावानवच्छेदकानवच्छिन्नवृत्तिकत्वविशिष्टस्येत्यर्थः । तेनैतत्कल्पे गुणविभाजकजात्यनिवेशेन लाघवमित्यवधेयम् ।
_ “संयोगसामान्याभावरूपसाध्यवति गुणे तत्तत्संयोगाभावस्य-परस्परानवच्छेदको यः परस्परसंयोगाधिकरणो देशः-तदनवच्छिन्नवृत्तिकत्वविशिष्टस्य तत्तसंयोगीययावद्विशेषाभाववत्त्वस्य सत्त्वादुपाधेः साध्यव्यापकता, संयोगीययावद्विशेषाभावरूपहेतुमति च वृक्षे तत्तत्संयोगाऽभावयोः परस्परानवच्छेदकदेशानवच्छिन्नत्तिकत्वविशिष्टस्य तादृशसंयोगीययावद्विशेषाभावस्यासत्त्वानिरुक्तोपाधेहेत्वव्यापकताऽपि बोध्येति” केषाञ्चिन्मतं दूषयति-तन्नेति । व्याप्यवृत्तिरूपादीनां = निरवच्छिन्नवृत्तिकत्वविशिष्टरूपादीनां, विशेषाभावस्य = तद्रूपाभावस्य, अवच्छेदकाप्रसिद्धयेति । व्याप्यवृत्तीनां निरवच्छिन्नतयैव वर्तमानत्वादिति भावः । तदनवच्छेदकस्य-व्याप्यवृत्तितद्रूपाभावानवच्छेदकस्य, तत्रैव = रूपसामा. न्याभावसाध्यकस्थल एव, साध्योव्यापकत्वेति । रूपत्वरूपजात्यवच्छिन्नाभाववति गुणादौ रूपीयविशेषाभावान्तर्गतव्याप्यवृत्तिरूपाभावस्यावच्छेदकाप्रसिद्धया
दीपिका सामान्याभाववत्याकाशे निरवच्छिन्नवृत्तिकत्वविशिष्टतदीययावद्विशेषाभावस्यासत्त्वा. दुपाधेन साध्यव्यापकत्वमिति वाच्यं, तादृशजातौ चतुःक्षणवृत्तिजन्यवृत्तित्वस्यापि विवक्षणीयत्वात् , शब्दत्व-ज्ञानत्वादेश्च चतुःक्षणवृत्तिजन्यवृत्तित्वाभावान्न कोऽपि दोष इति ध्येयम् ।