________________
४८
सिद्धान्त - लक्षण - जागदीशी ।
दीधितिः
न च 'यो यदीययावद्विशेषाभाववान् स तत्सामान्याभाव
जगदीशी
यज्जातिसमानाधिकरणोभयावृत्तिधर्म्मावच्छिन्न-यत्सम्बन्धावच्छिन्न-प्रतियोगिताकयावदभाववान् स तज्जात्यवच्छिन्न तत्सम्बन्धावच्छिन्नप्रतियोगिताकाभाववान् इत्यर्थः । तेन न स्वरूपासिद्धि:,
विवृतिः
नन्वनुमानादेव द्रव्ये संयोगाभावः सिध्यतीत्याशङ्कते - यो यदीयेति । यदीयाः = “ यन्निष्टप्रतियोगिताकाः, यावन्तो विशेषाभावास्तद्वान् यो भवति, स तत्सामान्यनिष्ठप्रतियोगिताकाभाववान् भवति”, इति व्याप्तेः = इति सामान्यव्याप्तेः, मानम् = मितिकरणम् । न चेत्यादिशङ्कितुर्मते हेतोरेवानुमितिकरणत्वादिति भावः ।
ननु यथाश्रुते घटपटोभयाभावस्यापि यावद्विशेषान्तर्गततया तस्य च घटवत्यपि सत्त्वेन तत्र घटसामान्याभावा सत्त्वाद्वयभिचारः, एवं - तत्तत्संयोगाभाववत्यपि वृक्षे संयोगसामान्यनिष्ठप्रतियोगिताकस्य संयोग घटोभयाभावस्योभयवादिसिद्धतया सिद्धसाधनमतो निरुक्तो भयाभावयोर्हेतुघटकत्व - साध्यघटकत्व-निरासायाहयजातीति । जातिसामानाधिकरण्यं = जात्यधिकरणवृत्तित्वं तच्चोभयावृत्तिधर्मविशेषणम् । उभयावृत्तित्वञ्चैकमात्रवृत्तित्वं-स्वप्रतियोगिवृत्तित्व, स्वानुयोगिवृत्तिवोभयसम्बन्धेन भेदविशिष्टान्यत्वमिति यावत् । स्वं तत्तद्वटादिभेदः । तादृशधर्माश्च तत्तद्वत्व - तत्तत्संयोगत्वादयः । तथा च संयोगत्वजात्यधिकरणवृत्तिरुभयावृत्तिधर्मस्तत्तत्संयोगत्वादिस्तदवच्छिन्नसमवायसम्बन्धावच्छिन्नप्रतियोगिताकानां यावतां तत्तत्संयोगाभावानां वृक्षे सत्त्वात्तत्र संयोगत्वजात्यवच्छिन्नप्रतियोगिताकस्य संयोगसामान्याभावस्य सिद्धिः ।
एवं निरुक्तव्याप्त्या घटत्वजात्यधिकरणे घटे वर्त्तमानस्योभयावृत्तिधर्मस्य तत्तद्घटत्वादेरवच्छिन्नसंयोगसम्बन्धावच्छिन्नप्रतियोगिताकानां तत्तद्वाभावानां यस्मिन्देशे सत्त्वं तत्र घटत्वजात्यवच्छिन्नप्रतियोगिताकस्य घटसामान्याभावस्य सिद्धिः । एवं रीत्यान्यत्रापि बोध्यं, पूर्वोक्तोभयत्वादेरुभयावृत्तित्त्वविरहेण जातित्वा भावेन च तयोर्हेतुघटकत्व-साध्यघटकत्वासम्भवान्न निरुक्तविवक्षणे सिद्धसाधनादयो दोषाः सम्भवन्तीति ध्येयम् । तेन = धर्मे उभयावृत्तित्वविशेषणेन, प्रतियोगि-तायां यत्सम्बन्धावच्छिन्नत्व विशेषणेन च ।
आद्यस्य फलमाह— स्वरूपासिद्धिरिति । तथा चोभयावृत्तित्वस्य धर्म