________________
सिद्धान्त-लक्षण-जागदोशी ।
vvvvvvvv~~--
___ जागदीशी सर्वावयवावच्छेदेन, प्रतियोगिग्रहात्मकदोषाद्वेत्यर्थः । न चैवमपि प्रतियोगिग्रहोत्पत्तिदशायामेव तत्प्रत्यक्षं दुर्वारम् , प्रतियोग्युपलम्भकसामथ्या अपि दोषत्वोपगमात्, 'प्रतियोगिन उपलब्धिर्यत इति' व्युत्पत्त्या तस्या एव वा प्रस्तुतत्वादिति भावः ।
विवृतिः स्यात् , संयोगाभावे प्रतियोगितासम्बन्धेन योग्यताविशिष्टप्रतियोगिसामान्यस्याप्रसिद्धत्वात् , अतीन्द्रियपिशाचसंयोगादेरपि प्रतियोगिसामान्यान्तर्गतत्वात् , योग्यस्य यत्किञ्चित्प्रतियोगिनो हेतुत्वे तुं संयोगाभावप्रतियोगिनो योग्यस्य घटादिसंयोगस्य प्रतियोगितासम्बन्धेन संयोगाभावे सत्त्वात्कारणसत्त्वेन संयोगाभावप्रत्यक्षे न किमपि बाधकम् , एवञ्च निरुक्तस्य कारणस्य सत्त्वाद् वृक्षेपि संयोगाभावप्रत्यक्षं स्यादित्याशयः।
सर्वावयवावच्छेदेनेति । शाखादितत्तत्सकलावयवावच्छेदेनेत्यर्थः । दोषात् = संयोगरूपप्रतियोगिप्रत्यक्षात्मकप्रतिबन्धकात् , तथा च समवायेन संयोगसामान्याभावप्रत्यक्षं सर्वावयवावच्छेदेन संयोगात्मकप्रतियोगिज्ञानस्य प्रतिबन्धकमिति वृक्षस्य सर्वावयवावच्छेदेन संयोगात्मकप्रतियोगिज्ञानस्य प्रतिबन्धकस्य सत्त्वान्न वृक्षे संयोगाभावस्य प्रत्यक्षत्वं सम्भवतीति भावः।
ननु तादृशप्रतियोगिज्ञानस्य प्रतिबन्धकत्वे तस्य च कार्यपूर्वक्षणे सत्ताया एव कार्यानुत्पादप्रयोजकत्वं वक्तव्यं, एवञ्च यस्मिन् क्षणे सर्वावयवावच्छेदेन प्रतियोगिज्ञानमुत्पद्यते तत्क्षणे कथं न प्रत्यक्षं, तत्पूर्वक्षणे प्रतिबन्धकविरहादित्याशङ्कतेन चेति । दुर्वारमित्यनेनान्वयः। प्रतिग्रहोत्पत्तिदशायां = संयोगसामान्याभावप्रतियोगिनः-संयोगस्य-प्रत्यक्षकाले, तत्प्रत्यक्ष संयोगसामान्याभावप्रत्यक्षं, दुर्वारमिति । 'सर्वावयवावच्छेदेने'त्यायुक्तावपि प्रत्यक्षापत्तिवारणासम्भवादितिभावः । प्रतियोग्युपलम्भकसामग्याः = प्रतियोगिज्ञानजनकसामग्र्याः, दोषत्वोपगमात् = प्रतिबन्धकत्वोपगमात्, प्रतिबन्धकत्वस्य विवक्षणीयत्वादिति यावत् । तथा च सर्वावयवावच्छेदेन प्रतियोगिग्रहजनकसामग्या एव संयोगाभावप्रत्यक्षे प्रतिबन्धकतया तस्याः सामग्याश्च प्रतियोगिग्रहोत्पत्तिपूर्वक्षणे विद्यमानत्वात्प्रतिबन्धकसत्त्वेन न प्रतियोगिग्रहोत्पत्तिकाले प्रत्यक्षमिति भावः । 'प्रतियोग्युपलब्धि' शब्देन प्रतियोगिज्ञानजनकसामग्रीपर्यन्तलाभाय व्युत्पत्ति प्रदर्शयति-व्युत्पत्त्येति। बहुव्रीहिसमासादरेणेत्यर्थः तस्या एव = प्रतियोगिग्रहजनकसामज्या एव, प्रस्तुतत्वात् = प्रतिबन्धकत्वेन दीधितायुक्तत्वात् ।
।