________________
विवृति-दीपिकालङ्कता।
दीधितिः अयं कपिसंयोगी एतद्वक्षत्वादित्यादिसङ्ग्रहायासमानाधिकरणान्तम् ।
जागदीशी कपिसंयोगिन्येतत्पदार्थस्य साध्यताभ्रमनिरासार्थ मय'मिति पक्षनिर्देशः। साम्प्रदायिकमते संयोगसामान्याभावमात्रस्य द्रव्येऽभावात्
कपीति । वृक्षमाले कपिसंयोगाभावात्-एतदिति । न चाभावे हेतुसामानाधिकरण्यस्येव हेत्वधिकरणे निरवच्छिन्नवृत्तित्वरूपस्य निवेशा
विवृतिः दर्शयति-अयमिति । सङ्ग्रहाय = अव्याप्तिनिरासाय, तथा च प्रतियोग्यसामा. नाधिकरण्यानुपादानेऽयं कपिसंयोग्येतद्वक्षत्वादित्यत्र हेत्वधिकरणीभूतैतवृक्षे मूलावच्छेदेन कपिसंयोगाभावस्य विद्यमानतया तत्प्रतियोगितावच्छेदकत्वस्य साध्यतावच्छेदके कपिसंयोगत्वे सत्त्वादव्याप्तिरतो हेतुसमानाधिकरणाभावे 'प्रतियोग्यसामानाधिकरण्यं' विशेषणीयं, तदुपादाने च,-कपिसंयोगाभावस्य हेतुसामानाधिकरणत्वेऽपि तत्प्रतियोगिनः कपिसंयोगस्याधिकरणे वर्त्तमानत्वान्न तदभावः प्रतियोग्यधिकरणावृत्तिरपि तु घटाभाव एव प्रतियोग्यसमा. नाधिकरणहेतुसमानाधिकरणः, तत्प्रतियोगितावच्छेदकत्वस्य कपिसंयोगत्वरूपे साध्यतावच्छेदकेऽसत्त्वान्नाव्याप्तिरिति भावः ।
इदम्पदप्रयोजनमाह-कपिसंयोगिनीति । भ्रमनिरासाय = कपिसंयोगिएतत्-वृक्षत्वादित्याकारकसाध्यत्वादिभ्रमनिरासाय, न चेदंशब्देन पक्षनिर्देशेपीदन्त्वविशिष्ट कपिसंयोगिनि एतत्पदार्थस्य साध्यत्वभ्रमानिरासाकथमिदं युक्तमिति वाच्यम् । इदन्त्वैतत्त्वयोस्तुल्यार्थकतयोद्देश्यतावच्छेदकविधेयतावच्छेदकयोरैक्याच्छाब्दबोधानुदयेन तादृशभ्रमासम्भवात् , परार्थानुमाने प्रतिज्ञादीनामुपयोगितया तादृशशाब्दबोधस्यावश्यकत्वादिति ध्येयम् । कपीतीति । तथा च 'कपि'पदानु. पादाने वृक्षे संयोगसामान्याभावस्य सर्वमतासिद्धतया घटाभावमादायैव संयोग्ये. तवृक्षत्वादित्यत्र लक्षणसमन्वयसम्भवाद्वयर्थं प्रतियोग्यसोमानाधिकरण्यदलमिति सर्वमतसाधारणाव्याप्त्यनुरोधेन 'कपि'पदोपादानमिति भावः । एतदिति । तथा च हेतावेतत्त्वस्याविशेषणत्वे,- कपिसंयोगसाध्यकवृक्षावहेतोय॑भिचारितया तत्र लक्षणागमनस्येष्टत्वात्प्रतियोग्यसामानाधिकरण्यव्यावृत्तिस्तत्र न सङ्गच्छत इति हेतुविशेषणतयैतत्वोपादानमिति भावः। न चेति । वाच्यमित्यग्रेतनेनान्वयः। हेत्वधिकरणे = यत्किञ्चिद्धत्वधिकरणे, निरवच्छिन्नेति । यथाभावे हेतुसामाना