________________
विवृति-दोपिकालङ्कृता।
दीधितिः तद्वति धूमत्वादिकं वा, व्याप्तिः, आद्या भिन्ना, द्वितीया त्वभिन्नैवेति ध्येयम् ॥४॥
जागदीशी इत्यादिग्रन्थानुपपत्तिस्तदवस्थैव, तथा) विशिष्टसत्त्वव्यापकीभूतद्रव्यत्वसामानाधिकरण्यवतः सत्त्वस्य गुणादौ परामर्शाद्गुणेऽपि द्रव्यत्वानुमितेः प्रमात्वं स्यादत आह-तद्वतीति * । तादृशसामानाधिकरण्यवतीत्यर्थः । तथा च तादृशसामानाधिकरण्यविशिष्टधूमत्वं व्याप्तिः, तत्प्रकारिकैव पक्षधर्माताधीरनुमितिहेतुः, तत्र च नीलघटत्वप्रकारकबुद्धी घटत्वस्येव
विवृतिः सामानाधिकरण्यस्य व्याप्तित्वे दोषान्तरमाह-तथेति ।) गुणेऽपीति । तादृश• परामर्शस्य गुणविशेष्यकत्वादिति भावः । प्रमात्वं स्यात्-प्रमात्मकपरामर्शजन्यत्वं स्यात्, अन्यथा गुणे द्रव्यस्वानुमितेः प्रमात्वाभावेन यथाश्रुतार्थासङ्गतिः स्यात् । ताशसामानाधिकरण्येति । धूमव्यापकवह्निसामानाधिकरण्यवतीत्यर्थः । -ताशसामानाधिकरण्यविशिष्टेति । धूमव्यापकवह्निसामानाधिकरण्यस्य सामानाधिकरण्यसम्बन्धेन विशिष्टं यद्धमत्वं तदेव व्याप्तिरित्यर्थः । तत्कारिका = धूमव्यापकवह्निसामानाधिकरण्यविशिष्टधूमत्वप्रकारिका, पक्षधर्मताधीः = पर्वतादिवृत्तिताधीः, परामर्श इति यावत् ।
ननु धूमव्यापकवह्विसामानाधिकरण्यविशिष्टधूमत्वस्य व्याप्तित्वे धूमत्वत्वप्रवेशागौरवं, धूमत्वत्वस्य धूमेतरावृत्तित्वे सति सकलधूमवृत्तित्वस्वरूपत्वादत आह-तत्रेति । नीलघटत्वप्रकारकबुद्धौ, 'नीलो घट' इति बुद्धाविति यावत् । 'घटत्वस्येवेति । यथा 'नीलो घट' इति बुद्धौ नीलत्वस्य पारतन्त्र्येण सामानाधिकरण्यसम्बन्धेन घटत्वे भानं, न तु घटत्वे घटत्वत्वस्येति सर्ववादिसिद्धं, तथा 'धूमव्यापकवह्निसामानाधिकरण्यविशिष्टधूमवान्पर्वत' इति परामर्शेऽपि पारतन्त्र्येण धूमव्यापकवह्विसामानाधिकरण्यस्य सामानाधिकरण्यसम्बन्धेन धूमत्वे भानं न तु धूमत्वे धूमत्वत्वस्यातो न धूमत्वत्वप्रवेशकृतं गौरवमिति तात्पर्यम् । . दीधितौ-आद्येति । हेतुतावच्छेदकनिष्ठहेतुव्यापकसाध्यसामानाधिकरण्यरूपा व्याप्तिरित्यर्थः । भिन्ना = प्रतिव्यक्तिभिन्ना, द्वितीया = हेतुव्यापकसाध्यसामानाधिकरण्यविशिष्टहेतुतावच्छेदकरूपा व्याप्तिः, अभिन्नति । तस्या ऐक्यादिति भावः।