________________
विवृति-दीपिकालङ्कता।
३५.
दीपिका याधिकरणत्वोभयसम्बन्धेन। एतेन-तत्त्वमेव हेत्वधिकरणत्वमित्यनुक्त्वा तथाविधहेतु. तावच्छेदकाश्रयस्याधिकरणमेवेत्याद्यभिधानमसातमित्यादिपूर्वपक्षोऽपि निरस्तः । - ननु हेतुतावच्छेदकधर्मेस्वाश्रयाधिकरणीभूतेत्यायुक्तावपि द्रव्यं घटत्वपटत्वोभयस्मादित्यत्रातिव्याप्तिः, उभयत्वाश्रयीभूतघटत्वाधिकरण-घट-निष्ठाधिकरणतानिरूपकतान. वच्छेदकत्वस्य तादृशोभयत्वे सत्त्वेऽपि, सामान्यतोऽधिकरणतानिरूपितनिरूपकतानवच्छेदकस्वस्य तत्रासत्त्वाद्धटस्य,-पटस्यापि,-हेत्वधिकरणत्वेन धर्तुं शक्यत्वादिति चेन्न । स्वाश्रयाधिकरणीभूतं यदित्यनेन स्वावच्छिन्नप्रमीयप्रकारतानिरूपितविशेष्यतावद् यदित्यस्य विवक्षितत्वात् । तथा च,-उभयत्वावच्छिन्नप्रकारतानिरूपितविशेष्यताया घटपटादावसत्त्वेन नातिव्याप्तिरिति भावः । न चैवं लाघवाद्धेतुतावच्छेदकं यभिष्ठवि. शेष्यतानिरूपितप्रमीयप्रकारतावच्छेदकतापर्याप्त्यधिकरणं तदेव हेतुतावच्छेदकावच्छिनाधिकरणमित्येवाच्यतां किं गुरुतरनिवेशेनेति वाच्यम् । द्रव्यं गुणकर्मान्यत्वविशिष्टसवादित्यत्र 'गुणकर्मान्यत्वोपलक्षितसत्तावान् गुण' इत्याकारकप्रमामादाय गुणस्यापि हेत्वधिकरणत्वसम्भवादव्याप्त्यापत्तेः।।
ननु हेतुतावच्छेदकधर्मः स्वाश्रयाधिकरणीभूतयनिष्ठाधिकरणतानिरूपकतावच्छेदकत्व-सामान्यतोऽधिकरणतानिरूपकतानवच्छेदकत्वैतदन्यतरवान् स्यात्तदेव हेतुतावच्छेदकावच्छिन्नाधिकरणमित्येवोच्यतां, किं गुरुतरोभयाभावनिवेशेन, यदि चान्यतरत्वस्य भेदद्वयगर्भतयोभयाभावापेक्षया लाघवावकाशो न सम्भवतीति मन्यते, तदा हेतुतावच्छेदकधर्मः स्वरूपसम्बन्धन निरुक्तद्वित्वाश्रयवान्भवतीत्येवं क्रमेणोभयाभावापेक्षया लाघवसम्भवात् कथं तन्नोक्तमिति चेन्न, वाच्यत्वसाध्यकविषयितासम्बन्धेन घटहेतुकेऽव्याप्त्यापत्तेः, घटत्वाश्रयाधिकरणतानिरूपिततादृशसम्बन्धावच्छिन्ननिरूपकतावच्छेदकत्व-सामान्यतोऽधिकरणतानिरूपकतानवच्छेदकत्वोभयवतोऽप्रसिद्धः, मन्मते तु स्वाश्रयाधिकरणीभूतयन्निष्ठाधिकरणतानिरूपितनिरूपकतानवच्छेदकत्वस्य-स्वाश्रयाधिकरणं यत्तदन्यत्वविशिष्टघटत्वादी प्रसिद्धतयाऽव्याप्त्यभाव इति ध्येयम् ।
ननु हेतुतावच्छेदकधर्मे स्वाश्रयाधिकरणीभूतयनिष्ठाधिकरणतानिरूपितनिरूपकतानवच्छेदकत्वविशिष्ट - सामान्यतोऽधिकरणतानिरूपितनिरूपकतावच्छेदकत्वाभावः, तदेव हेतुतावच्छेदकावच्छिन्नाधिकरणमित्येवोच्यतां, किमुभयाभावनिवेशेनेति चेन, सर्वत्र निरूपकताया हेतुतावच्छेदकसम्बन्धावच्छिन्नत्वेन विवक्षणीयतया वड़िसाध्यकतद्धमप्रतियोगिकसंयोगेन धूमहेतावव्याप्त्यापत्तेः । तद्धमप्रतियोगिकसंयोगसम्बन्धावच्छिन्ननिरूपकतानवच्छेदकत्वविशिष्टतादृशसम्बन्धावच्छिन्न -सामान्यतोऽधिकरणतानिरूपितनिरूपकतावच्छेदकत्वाप्रसिद्धेः।