________________
विवृति-दीपिकालकता।
दीधितिः घधिकरणगुणादिनिष्ठात्यन्ताभावप्रतियोगित्वेऽपि द्रव्यत्वादेव्याप्तिः, साधनस्य विशिष्ट सत्त्वादेर्गुणादाववृत्तेः ॥३॥
जागदीशी द्रव्ये गुणकर्मणोः साध्यताभ्रमस्ानिरासादिति । (प्रतियोगित्वेऽपीति-प्रतियोगितावच्छेदकावच्छिन्नत्वेऽपीत्यर्थः । ) गुणादाववृत्तेरिति । गुणादावभावादित्यर्थः; तथा च हेतुतावच्छेदकावच्छिन्नाधिकरणत्वं न गुणस्येति भावः । यद्यप्यवश्यक्लः ताभिपर्वतत्व-चत्वरत्वादि-तत्तद्धर्मविशिष्टतत्तद्धमत्वाद्यवच्छिन्नाधिकरणता. व्यक्तिभिरेव 'धूमवानितिप्रत्ययोपपत्तौ धूमत्वाद्यवच्छिन्नाधिकरणतायां
विवृतिः प्रतियोगितावच्छेदकावच्छिन्नत्वेपि = प्रतियोगितावच्छेदकसाध्यतावच्छेदकवत्त्वेपीत्यर्थः । यथाश्रुतार्थे द्रव्यत्वनिष्ठस्य तस्य दीधितिकृन्मतेऽव्याप्त्यप्रयोजकत्वात्, तन्मते साध्यतावच्छेदके हेतुमनिष्ठाभावप्रतियोगितावच्छेदकत्वस्यैवाव्याप्तिप्रयोजकतायाः पूर्वमभिहितत्वात् । तथा चेति । हेतुतावच्छेदकावच्छिन्नाधिकरणत्वं हेतुतावच्छेदकीभूत-वैशिष्टय - सत्तात्व-पर्याप्तावच्छेदकताकनिरूपकताकाधिकरणत्वं न गुणस्येत्यर्थः। __हेतुतावच्छेदकतापर्याप्त्यधिकरणधर्मावच्छिन्नाधिकरणत्वनिवेशे तादृशाधिकरणाप्रसिद्धया वह्निमान्धूमादित्यत्राव्याप्तिरित्याशङ्कते -यद्यप्यवश्यक्लुप्ताभिरिति। अस्याधिकरणताभिरित्यनेनान्वयः। पर्वतत्वादिवैशिष्ट्यं पर्वतत्वादिसामानाधिकरण्यं, तच्च धूमविशेषणं, न तु धूमत्वविशेषणं, गौरवान्निष्प्रयोजनकत्वाञ्चेति ध्येयम् । धमत्वावच्छिन्नाधिकरणताया अस्वीकारेऽपि पर्वतत्वादिविशिष्टधमत्वाद्यवच्छिन्नाधिकरणतानामवश्यं स्वीकरणीयतया तासामवश्यक्लप्तत्वं बोध्यम् । प्रत्ययोपपसाविति । धूमत्वपर्याप्तावच्छेदकताकाधिकरणताया अस्वीकारेऽपि तत्तद्धमत्वावच्छिन्नाधिकरणता यत्र तत्रैव 'धूमवानि'तिप्रतीतेः सम्भवादिति भावः।
इदमत्र तत्त्वम्-धूमत्वपर्याप्तावच्छेदकताकाधिकरणतामात्रस्य 'धूमवानि'तिप्रतीत्यर्थ स्वीकारे तत्तद्धमत्वावच्छिन्नाधिकरणतायाश्चास्वीकारे, 'पर्वतत्वविशिष्टधूमवन्महानसं' 'महानसत्वविशिष्टधूमवान्पर्वत 'इत्यादिप्रतीत्यापत्तिः,-धूमत्वावच्छिन्नाधिकरणतायाः पर्वते, महानसेऽपि च सत्त्वादित्यवश्यन्तत्तद्धमत्वावच्छिन्नाधिकरणत्वं तत्तत्प्रतीत्यभावानुरोधन स्वीकर्तव्यं, एवञ्च हेतुतावच्छेदकतापर्याप्त्यधिकरणीभूतधूमत्वाव