________________
३०
सिद्धान्त-लक्षण-जागदीशी ।
जागदीशी यत्तु 'दण्डत्वर्मिकनिरुक्तानवच्छेदकत्वज्ञानस्यैव कार्यतावच्छेदकं दण्डा'वच्छिन्नविधेयकानुमितित्वमित्यनुमितेर्दण्डप्रकारकत्वं नानुपपन्नम्' इति, तत्तुच्छं, परम्परया दण्डत्वावच्छिन्नविधेयकानुमितित्वस्यापि तादृशज्ञानकायंतावच्छेदकतया सर्वदैव 'दण्डिमान्' 'दण्डत्ववत्त्वान्' इत्युभयाकारानुमित्यापत्तेः, उभयधर्मावच्छिन्नस्यैव सामग्रीसम्भवादिति दिक् । ___ अपरे तु 'नोक्तव्याप्तिज्ञानं 'दण्डिमान्' वह्निसंयोगवान्' इत्याद्यनुमितो हेतुः, किन्तु वक्ष्यमाणमन्योऽन्याभावघटितव्याप्तिज्ञानम् , अत एव 'यथायथमि'त्यादिग्रन्थोऽपि सङ्गच्छत' इत्याहुः ।
विवृतिः यत्त्विति । दण्डत्वधर्मिकेति । दण्डत्वविशेष्यकेत्यर्थः । निरुक्तानवच्छेदकत्वज्ञानस्य = प्रतियोगिव्यधिकरणहेतुमन्निष्ठाभावप्रतियोगितानवच्छेदकत्वज्ञानस्य, कार्यतावच्छेदकमिति । तथा च दण्डिमानित्यनुमितित्वावच्छिन्नं प्रति “दण्डत्वं हेतुमन्निष्टप्रतियोगिव्यधिकरणाभावप्रतियोगितानवच्छेदक" मित्याकारकज्ञानं कारणमतो दण्डिमानित्यनुमितेर्नानुपपत्तिरिति भावः। तत्तच्छमिति। अयं भावः'दण्डत्वं हेतुमन्निष्ठप्रतियोगिव्यधिकरणाभावप्रतियोगितानवच्छेदक' मिति ज्ञानस्य दण्डिमानित्याकारकानुमितिहेतुत्वे दण्डत्ववत्त्वानित्यनुमितावपि तस्यैव ज्ञानस्य हेतुत्वं वाच्यं, तथाच दण्डिमानित्यनुमितित्वावच्छिन्नस्य दण्डत्ववत्त्वानित्यनुमितित्वावच्छिन्नस्य च कारणं,-यत्तादृशं ज्ञानं, तत्सत्वे 'दण्डिमान्' 'दण्डत्ववत्त्वानि'त्येवानुमितिः सर्वदा स्यात् , उभयानुमित्योः कारणस्यैक्यादिति ।
अपरे त्विति । नोक्तव्याप्तिज्ञानमिति । प्रतियोगिव्यधिकरणहेतुमन्निष्टाभावप्रतियोगितानवच्छेदकसाध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यज्ञानमित्यर्थः । वक्ष्यमाणमिति । हेतुमन्निष्ठान्योन्याभावप्रतियोगितानवच्छेदकसाध्यसामानाधिकरण्यरूपमित्यादिः । यथायथेति । यादृशानुमितौ यादृशं व्याप्तिज्ञानं सम्भवति तादृशमेव व्याप्तिज्ञानं तत्र हेतुरिति तद्ग्रन्थाशयः । आहुरित्यस्वरससूचनाय, तबीजन्तु निरुक्तान्योन्याभावगर्भव्याप्तिज्ञानस्यानुमितिहेतुत्वेपि तद्दण्डवान्नैतद्दण्डवान्नेत्यादिभेदमादाय निखिलस्यैव दण्डिनः साध्यस्य प्रतियोगितावच्छेदकतया साध्ये तादृशाभावप्रतियोगितानवच्छेदकत्वस्य दुर्लभतया दण्डिमान् दण्डिसंयोगादित्यनान्योन्याभावगर्भव्याप्तेरेवासम्भवः, न च यद्रूपविशिष्टसाध्यतावच्छेदकवि
१. दण्डित्वावच्छिन्नेति कलिकातामुद्रितपाठः ।