________________
विवृति-दीपिकालङ्कृता ।
जगदीशी
- दण्ड
=
भेदात् यत्र दण्डत्वादिविशिष्टं विधेयतावच्छेदकं, तत्र हेतुमन्निष्ठाभावप्रति-योगितावच्छेदकतानवच्छेदको यो धर्मस्तद्विशिष्टावच्छिन्न सामानाधिकरण्य-रूपैव व्याप्तिः तद्विशिष्टावच्छिन्नविधेयकानुमितिप्रयोजिका, यत्र तु परम्परया दण्डत्वादिकमेवानुमितौ विधेयतावच्छेदकं तत्र हेतुमन्निष्ठाभावप्रतियोगितानवच्छेदको यो धर्मः परम्परया तदवच्छिन्न सामानाधिकरण्यरूपैव व्याप्तिरनुमितिप्रयोजिकेति, – सामानाधिकरण्यांशे दण्डादे: प्रवेशाप्रवेशकृतो 'दण्डिमान्' 'दण्डत्ववत्त्वान्' इत्यनुमित्योर्दण्डादिविधेयकत्वनियम' इत्याहुः ।
-
२६
विवृतिः
स्वाश्रयाश्रयत्वरूपपरम्परासम्बन्धेनेत्यर्थः,
करणाभावप्रतियोगितावच्छेदकतावच्छेदकभिन्नं यत्साध्यतावच्छेदकतावच्छेदकं, तद्विशिष्टावच्छिन्न सामानाधिकरण्यं प्रयोजकम्, यद्यपि तत्तद्दण्डवान्नास्तीत्य भावीयप्रतियोगितावच्छेदकतावच्छेदकं -तत्त्वं, दण्डत्वञ्च तद्भिन्नत्वं साध्यतावच्छेदकताव - च्छेदके दण्डत्वे नास्ति, तथापि निरुक्तहेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकतायां साध्यतावच्छेदकतावच्छेदक-तदितरोभयधर्मानवच्छिन्नत्वं निवेश्य तद्दण्ड-वान्नास्तीत्यभावस्य वारणसम्भवान्नानुपपत्तिः । यत्र तु परम्परयेति । विधेयतावच्छेदकं = साध्यतावच्छेदकं, तथा च दण्डत्ववत्त्वानित्यनुमितौ हेतुसमानाधिकरणप्रतियोगिव्यधिकरणाभावप्रतियोगितानवच्छेदकं यद्दण्डत्वरूपं साध्यतावच्छेदकं, स्वाश्रयाश्रयत्वसम्बन्धेन तद्विशिष्टस्य दण्डिनः सामानाधिकरण्यं प्रयोजकं वक्तव्यम् । प्रवेशाप्रवेशकृत इति । दण्डिमानित्यनुमितिप्रयोजकव्याप्तिघटकसामानाधिकरण्यघटकतया दण्डत्वविशिष्टस्य दण्डस्य प्रवेशः, दण्डत्ववत्त्वानित्यनुमितिप्रयोजकतादृशसामानाधिकरण्यघटकतया दण्डादेर्न प्रवेशस्तत्र परम्परासम्बन्धेन दण्डत्वस्य दण्डिनि साध्ये भानात्कारणभेदेन कदाचिद्दण्डिमानिति, कदाचिच्च दण्डत्ववत्त्वानित्युभयाकारानुमितिः सम्भवतीति भावः । सामानाधिकरण्यांशे साध्यतावच्छेदकादेर्येन रूपेण भानं तेन रूपेण साध्यतावच्छेदकविशिष्टस्यैवानुमितिरित्यभिप्रायेण 'सामानाधिकरण्यांशे प्रवेशा-प्रवेशकृत' इत्यभिहितम्, अन्यथा 'तादृशप्रतियोगितावच्छेदकतावच्छेदकत्व - प्रति-योगितावच्छेदकत्वयोः प्रवेशाप्रवेशकृत' इत्यनुक्तौ न्यूनता स्यादिति ध्येयम् ।