________________
विवृति-दीपिकालङ्कता।
२७
_
विवृतिः
जागदीशी शयेन-दण्ड्यादावित्यत्रादिपदमुपातं, तथा च तत्रापि स्वन्यूनवृत्तिजात्याश्रयत्वसम्बन्धेन रूपत्वमेव साध्यतावच्छेदकमिति ( नाव्याप्तिरिति) भावः । साध्यतावच्छेदकमिति। अनुमितिविधेयतावच्छेदकमित्यर्थः । तथा च उक्तव्याप्तिज्ञानादण्ड्यंशे दण्डत्वप्रकारिका दण्डत्ववत्त्वानित्येवानु
विवृतिः भावापत्तेरिति संक्षेपः । स्वन्यूनवृत्तीति । स्वं = रूपत्वं, एवञ्च निरुक्तनीलाद्यभावस्य लक्षणघटकत्वेऽपि तत्प्रतियोगितावच्छेदकनीलत्वादिभिन्नत्वस्य रूपत्वरूपसाध्यतावच्छेदके सत्त्वान्न रूपत्वन्यूनवृत्तिजातिमत्त्वान् रूपादित्यत्राव्याप्तिरित्यर्थः पर्यवसितः । दण्डत्वादिकमित्यादिपदप्रयोजनं प्रदर्शयितुं भूमिकामारचयतिसाध्यतावच्छेदकमितीति । अनुमितिविधेयतावच्छेदकमित्यनेन दण्डत्वावच्छिन्नविधेयताकानुमितेरेवाङ्गीकरणीयत्वं सूचितम् । कथमित्याकाङ्क्षायामाह. तथा चेति । उक्तव्याप्तिज्ञानात् = दण्डिमन्निष्टप्रतियोगिव्यधिकरणाभावीयतादृशप्रतियोगितावच्छेदकताशून्यदण्डत्वावच्छिन्नदण्डिसंयोगनिष्ठसामानाधिकरण्यज्ञानादित्यर्थः, दण्ड्यंशे-साध्ये, दण्डत्वप्रकारिका-स्वाश्रयाश्रयत्वरूपपरम्परासम्बन्धेन दण्डत्वप्रकारिका, अनुमितिरित्यनेनास्यान्वयः, दण्डिमानित्यनुमितौ बाधकमाह
दीपिका स्वन्यूनवृत्तीति । न चैवं समवायसम्बन्धेन रूपत्वस्य साध्यतावच्छेदकत्वस्वीकारेणैवोपपत्तौ स्वन्यून वृत्तिजात्याश्रयत्वस्य सम्बन्धत्वानुसरणं विफलमिति वाच्यम् । परामर्शस्यैव साध्यतावच्छेदकताघटकसम्बन्धेन साध्यतावच्छेदकावच्छिन्नसाध्यनिश्चयस्वरूपतया तेन सम्बन्धेन रूपत्वविशिष्टस्यानुमित्यनुदयप्रसङ्गात् , अनुमिति प्रति साध्यतावच्छेदकताघटकसम्बन्धेन साध्यतावच्छेदकविशिष्टसाध्यनिश्चयस्य. प्रतिबन्धकत्वादतो हेतुतावच्छेदकताघटक-साध्यतावच्छेदकताघटक-सम्बन्धयोर्भेदप्रदर्शनार्थ स्वन्यूनवृत्तिजात्याश्रयत्वस्य सम्बन्धत्वानुसरणमिति वदन्ति ।।
हेतुतावच्छेदकताया इतरवारकपर्यायनिवेशे प्रतियोगितासम्बन्धेन वह्निहेतुकमहानसीयवन्ह्यभावभेदसाध्यकस्थलेऽव्याप्तिः। प्रतियोगितया महानसीयवन्यधिकरणे महानसीयवन्यभावे साध्याभावस्य महानसीयवन्ह्यभावभेदाभावस्य सत्त्वात् , एवञ्च धूमत्वावच्छिन्न धूमत्वेतरधर्मानवच्छिन्नाधिकरणस्वाप्रसिध्या वह्निमान्धूमादित्यत्रा. च्याप्तिर्जगदीशेनाशङ्कितेत्यवधेयम् ।