________________
२५
विवृति-दीपिकालङ्कृता ।
जागदीशी - यदि च (तत्ताविनिर्मुक्त) शुद्धदण्डव्यक्तेरवच्छेदकत्वावगाहिप्रत्ययान्तरासत्त्वात् तद्दण्डी नास्तीत्यादिप्रतीत्या तत्ताविशिष्टदण्डव्यक्तेरेवावच्छेदकत्वं युक्तं, दण्डी नास्तीत्यादिप्रतीत्यन्यथानुपपत्त्या दण्डस्यावच्छेदकत्वसिद्धौ प्रमेयदण्डवान् नास्तीत्यादावपि तन्मात्रावच्छेदकत्वेनैव सामजस्ये विशिष्टस्य तत्रावच्छेदकत्वाकल्पनात् , तथा च कथमुक्ताव्याप्तिरित्युच्यते,
विवृतिः वच्छेदकताघटकीभूतसमवायसम्बन्धावच्छिन्नत्वाभावेन तादृशाभावस्य लक्षणाघटकत्वात्तादृशसमवायसम्बन्धावच्छिन्नाया हेतुमन्निष्ठप्रतियोगिव्यधिकरणघटाभावप्रतियोगितावच्छेदकताया घटत्वनिष्ठाया अभावस्य साध्यतावच्छेदके रूपत्वे सत्त्वान्नाव्याप्तिरिति भावः।
दण्ड्यादावित्यत्रादिपदप्रयोजनं प्रदर्शयितुमाशङ्कते-यदि.चेति। तत्ताविनिमुक्तः तत्ताऽविशेषितः, प्रत्ययान्तरासत्त्वादिति। दण्ड्यधिकरणे तद्दण्डी नास्तीत्यादिप्रत्ययातिरिक्तस्य शुद्धदण्डनिष्ठावच्छेदकत्वावगाहिनो 'दण्डी नास्ती'तिप्रत्ययस्यानुदयादित्यर्थः । प्रतीत्येति । दण्ड्यधिकरण इत्यादिः । युक्तमिति। अयं भावः, हेतुमति दण्ड्यधिकरणे तद्दण्डी नास्तीतिप्रत्ययस्योदयाद्दण्डी नास्तीतिप्रत्ययस्यानुदयात्तद्दण्डी नास्तीतिप्रत्ययस्य दण्डी नास्तीतिप्रत्ययतः किञ्चिद्वैलक्षण्यमङ्गीकर्तव्यं, तच्च वैलक्षण्यं तत्वविशिष्टदण्डनिष्ठावच्छेदकतावगाहित्वमेव, उभयप्रत्यययोरवैलक्षण्ये दण्ड्यधिकरणे तद्दण्डी नास्तीतिप्रत्ययवद्दण्डी नास्तीतिप्रत्ययस्याप्युदयप्रसङ्गः स्यादतस्तत्तद्दण्ड्यभावीयप्रतियोगितावच्छेदकत्वं तत्त्वविशिष्टदण्डव्यक्तरेव स्वीकर्तव्यमिति ।
ननु प्रमेयदण्डवान्नास्तीत्यभावीयप्रतियोगितावच्छेदकत्वमपि प्रमेयत्वविशिष्टदण्डे स्वीक्रियतामित्यत आह-दण्डी नास्तीति । अन्यथाऽनुपपत्या= शुद्धदण्डनिष्ठावच्छेदकरवावगाहित्वं विनोपपत्तिविरहेण, दण्डस्य-शुद्धदण्डस्य, तथाच 'प्रमेयदण्डवान्नास्ति'-'दण्डवान्नास्ती'त्यादिप्रतीत्योरेकस्मिन्नेवाधिकरण उदयसंभवेन "प्रमेय दण्डवान्नास्ती'त्यभावीयप्रतियोगितावच्छेदकत्वं शुद्धदण्डमात्र एव कल्पनीयं बाधकाभावादिति भावः । कथमुक्ताव्याप्तिरिति । तथाच दण्डिमति तत्तहण्ड्यभाव
दीपिका न चायमपसिद्धान्तः, शब्दशक्तिप्रकाशिकायां जगदीशेन तथैव प्रतिपादितत्वात् । कचित्तु साध्यतावच्छेदकताघटकसंसर्गावच्छिन्नत्व-किञ्चिदवच्छिन्नत्वोभयाभाववदव