________________
२४
सिद्धान्त-लक्षण-जागदोशी।
जागदीशी सम्बन्धावच्छिन्नाया एव हेतुमन्निष्ठाभावप्रतियोगितावच्छेदकतायाः प्रविष्टत्वात्, अन्यथा विषयितया रूपत्वादिविशिष्टज्ञानादेः' समवायेनाभावस्य हेतुमति सत्त्वाद्रूपवान् पृथिवीत्वादित्यादावव्याप्तिप्रसङ्गादिति भावः ।
विवृतिः या हेतुसमानाधिकरणप्रतियोगिव्यधिकरणाभावीयप्रतियोगितावच्छेदकता तच्छून्यत्वस्य साध्यतावच्छेदके निवेशनीयत्वात्समवायेन दण्डत्वविशिष्टस्य दण्डस्याभावप्रतियोगितावच्छेदकतायाः समवायसम्बन्धावच्छिन्नतया साध्यतावच्छेदकताघटकीभूतस्वाश्रयाश्रयत्वसम्बन्धावच्छिन्नत्वाभावेन न दण्डसामान्याभावस्य लक्षणघटकतयाऽव्याप्तिः सम्भवतीति भावः ।
न च स्वाश्रयाश्रयत्वसम्बन्धावच्छिन्नहेतुमन्निष्ठप्रतियोगिव्यधिकरणाभावप्रतियोगितावच्छेदकताया अप्रसिद्धत्वादव्याप्तितादवस्थ्यं, घटपटाद्यभावीयप्रतियोगितावच्छेदकतायाः समवायसम्बन्धावच्छिन्नतया तेषां लक्षणाघटकत्वादिति वाच्यम् । 'साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्ने'त्यनेन साध्यतावच्छेदकताघटकसंसर्गातिरिक्तसम्बन्धावच्छिन्नत्व-साध्यतावच्छेदकनिष्ठत्वोभयाभाववत्प्रतियोगितावच्छेदकताया विवक्षितत्वात् , समवायेन घटत्वनिष्ठावच्छेदकताया एव तादृशत्वेन घटाभावस्यैव लक्षणघटकत्वसम्भवादिति ध्येयम् । तादृशप्रतियोगितावच्छेदकतायां साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नत्वनिवेशप्रयोजनमाह - अन्यथेति । साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नत्वस्य हेतुमन्निष्ठाभावप्रतियोगिताविशेषणत्वमते वह्निमान्धूमादित्यादिप्रसिद्धस्थलेऽव्याप्तिमनुक्त्वा रूपवान् पृथिवीत्वादित्यत्राव्याप्तिमाह-विषयितयेति। तथा च साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्नत्वस्य हेतुमन्निष्टप्रतियोगिव्यधिकरणाभावप्रतियोगितावच्छेदकतायामनिवेशे; रूपवान् पृथिवीत्वादित्यत्र पृथिवीत्वाधिकरणीभूतायां पृथिव्यां 'विषयितासम्बन्धेन यद्रूपत्ववज्ञानादि तन्नास्ती' त्यभावीयप्रतियोगितावच्छेदकताया रूपत्वे सत्त्वात्तच्छून्यत्वस्य साध्यतावच्छेदके रूपत्वे विरहादव्याप्तिः, तन्निवेशे च विषयितया रूपत्ववान्नास्तीत्यभावीयप्रतियोगितावच्छेदकताया विषयित्वसम्बन्धावच्छिन्नतया साध्यता
दीपिका अन्यथा विषयितया रूपत्वादीति । नच रूपत्ववदभावीयप्रतियोगितावच्छेदकताया रूपत्वत्वावच्छिन्नत्वेन निरवच्छिन्नत्वाभावात्कथमुक्ताभावस्य लक्षणघटकत्वमिति वाच्यम् । विषयितासम्बन्धेन रूपत्वस्य स्वरूपतो भानाभ्युपगमात्,
१. रूपत्वादिमतो ज्ञानस्येति प्रामाणिकपुस्तके पाठः।