________________
-
विवृति-दीपिकालङ्कृता।
दीधितिः दण्ड्यादौ साध्ये परम्परासम्बद्धं दण्डत्वादिकमेव साध्यतावच्छेदकमतो नाव्याप्तिः ॥२॥
जागदीशी त्वापत्तेरत आह-दण्ड्यादाविति । हेतुमति दण्डसामान्याभावसत्त्वात् दण्डत्वमपि तादृशावच्छेदकमेवेत्यत उक्तं,-परम्परासम्बद्धमिति । तथा च स्वाश्रयाश्रयत्वलक्षणपरम्परासम्बन्धेन दण्डत्ववतो दण्डिनः साधनवत्यभावविरहानाऽव्याप्तिः, साध्यतावच्छेदकवाघटक
विवृतिः च्छिन्नाधिकरणतया सार्धमेवेदानीं विरोधितायाः कल्पनीयत्वात्तादृशाधिकरणतायाश्चापरदण्ड्यधिकरणेऽसत्वाद्धतुमति तादृशाभावसत्त्वे बाधकाभावात् । अन्यथा तत्त्वविशिष्टदण्डस्य प्रतियोगितावच्छेदकत्वे, एवञ्च प्रतियोगिव्यधिकरणहेतुसमानाधि. करणाभावप्रतियोगितावच्छेदकतायां साध्यतावच्छेदकतावच्छेदक-तदितरोभयानवच्छिन्नत्वनिवेशेऽपि दण्डिमान् दण्डिसंयोगादित्यत्र विशिष्टसाध्यतावच्छेदकस्थलेऽव्याप्तिवारणं न सम्भवति, तद्दण्ड्यभावीयप्रतियोगितावच्छेदकताया दण्डत्वमात्रा. वच्छिन्नतया साध्यतावच्छेदकतावच्छेदक-दण्डत्व-तदितरोभयानवच्छिन्नत्वात् , तद्दण्डी नास्त्येतहण्डीनास्तीत्यादेरभावस्य लक्षणघटकत्वेन सर्वेषु दण्डेषु साध्यतावच्छेदकेषु हेतुमन्निष्ठप्रतियोगिव्यधिकरणाभावप्रतियोगितावच्छेदकत्वस्य सत्त्वादित्याशय. वान् दीधितिकृदाह-दण्ड्यादाविति । तथाच तत्तद्दण्ड्यभावप्रतियोगितावच्छेदकताया दण्डमात्रे सत्त्वेऽपि तादृशावच्छेदकताशून्यत्वस्य साध्यतावच्छेदके दण्डत्वे सत्त्वान्न दडिमान् दण्डिसंयोगादित्यत्राव्याप्तिरित्याशयः । हेतुमतीति । तथाच दण्ड्यधिकरणे भूतलादौ समवायेन दण्डत्वविशिष्टस्य दण्डसामान्यस्याभावसत्त्वा. तादृशाभावप्रतियोगितावच्छेदकत्वं साध्यतावच्छेदकीभूते दण्डत्वेऽक्षतमिति भावः । इत्युक्तमिति । दीधितिकृतेति शेषः । परम्परासम्बन्धस्वरूपं दर्शयति-स्वाश्रयाश्रयत्वेत्यादिना । स्वंदण्डत्वम् , नाव्याप्तिरिति । समवायसम्बन्धेन दण्डत्वविशिष्टदण्डाभावस्य दण्डिसंयोगवन्निष्ठत्वेऽपि स्वाश्रयाश्रयत्वसम्बन्धेन दण्डत्वविशिटस्य दण्डिनो दण्डिसंयोगरूपहेतुमत्यभावविरहान्नाव्याप्तिरिति भावः । ननु तादृशपरम्परासम्बन्धेन दण्डत्वस्य साध्यतावच्छेदकत्वेऽपि समवायेन दण्डत्ववतो दण्डस्य हेतुमति दण्ड्यधिकरणे कथं नाभावः, तथाच तादृशाभावमादायाव्याप्तिरस्त्येवेत्यत आह-साध्यतावच्छेदकतेति । तथाच साध्यतावच्छेदकताघटकसम्बन्धावच्छिन्ना