________________
काली-शङ्करी-विवेचना। ..
२४५
-
न च तथापि यद्रूपावच्छिनाधिकरणत्वं हेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकावच्छिन्नाधिकरणत्वं न भवति तत्तद्रूपावच्छिन्नसामानाधिकरण्यस्य विवक्षणेनैव सामञ्जस्ये कृतं साध्यतावच्छेदक-तदितरेत्यादिविशेषणेनेति वाच्यम् । सामान्यधर्मावच्छिन्नाधिकरणत्वानभ्युपगन्तृमते 'वह्निमान् धूमादित्यादावष्यातेरिति दिक् ।
अथ 'यादृशप्रतियोगितावच्छेदकावच्छिन्नानधिकरणं हेत्वधिकरणं तादृशप्रतियोगिताभिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताश्रयसामानाधिकरण्यं व्याप्ति'रित्यस्यैव सम्यक्त्वे 'साध्यतावच्छेदके'त्यादि विफलमिति चेन्न । - धूमवदनुयोगिकसंयोगेन वह्वः साध्यत्वे वन्ह्यधिकरणत्वादिहेतावतिव्याप्तिः, तादृशप्रतियोगिताभिन्ना या संयोगसम्बन्धावच्छिन्नवतित्वावच्छिन्नप्रतियोगिता तदाश्रयसामानाधिकरण्यसत्त्वादिति ध्येयम् ।
अथ साध्यतावच्छेदके प्रतियोगिव्यधिकरणहेतुमनिष्ठाभावप्रतियोगितावच्छेदकं यद्यत् , तदवच्छिन्नभेदकूटसामानाधिकरण्यविवक्षणेनैव सामञ्जस्ये; कृतं 'साध्यतावच्छेदके'त्यादिविवक्षणेनेति ।
न च गगनवृत्तित्वविशिष्टवयभावमादाय 'वह्निमान धूमादित्यादावव्याप्तिरिति वाच्यम् । साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकावच्छिनाधिकरणत्वीयस्वरूपसम्बन्धेन प्रतियोगिनिरूपिताधिकरणत्वाभावस्य प्रतियोगिष्यधिकरण. पदेन विवक्षितत्वात् ।
न च विषयितासम्बन्धेन प्रमेयस्य साध्यतायां तज्ज्ञानत्वादिहेतावव्याप्तिस्ता. दृशाभावाप्रसिद्धरिति वाच्यम् । प्रतियोगिताव्याप्यनिरूपकत्वस्य विवक्षित्वादितिचेन्न । तस्य लक्षणान्तरत्वादिति ।
एतेन-प्रतियोगित्वसम्बन्धेन महानसीयवह्विसाध्यकस्थले प्रत्येकेन महानसी. याद्यभावमादायाव्याप्तिरित्यपि-प्रत्युक्तम्, एतादृशप्रतियोगिव्यधिकरणत्वस्य लक्षणघटकत्वात, प्रत्येकाभावे प्रतियोगिवैयधिकरण्याभावादिति ध्येयम् ॥५॥
* अथ विशिष्टाभावोभयाभावमादायासम्भवसम्भवे तत्तद्वयक्तित्वावच्छिन्नाभावमादायाव्याप्तिदानं सन्दर्भविरुद्धं कृतं [पृ० ६ जा० ] जगदीशेनेति चेन ।
तादाम्येन गगनस्य साध्यतायां तद्वयक्तिस्वादिहेतौ साध्यघटितविशिष्टा. भावोभयाभावस्य प्रतियोगिवैयधिकरण्यविरहेण तत्र लक्षणगमनानासम्भव इति ध्येयम् ॥ ६ ॥
"न च महानसीयवह्निर्नास्तीति प्रतीतिसिद्धस्य हेतुमनिष्ठाभावस्य प्रतियोगितावच्छेदकमेव वह्नित्वमित्यव्याप्तितादवस्थ्यमिति वाच्यम् , साध्यतावच्छेदक. तदितरोभयावच्छेद्यभिन्नाया एवं प्रतियोगिताया अनवच्छेदकत्वस्य विवक्षितत्वादिति जगदीशः" * [ पृ० ६ जा०] ।