________________
जगदीशी - सिद्धान्त-लक्षणम् ।
*अथ 'प्रतियोगिव्यधिकरणहेतुमन्निष्टाभावभिन्नाभावप्रतियोगिसाध्य सामानाधिकरण्यमेव व्याप्तिरित्यस्यैव सम्यक्त्वे - 'साध्यतावच्छेदके' स्यादिविशेषणं विफलम् [ पृ०६ जा० ] ।
न च हेतुसमानाधिकरणाभावभिन्न कालिकसम्बन्धावच्छिन्नप्रतियोगिताकधूमाभावमादाय 'धूमवान् वह्ने' रित्यादावतिव्याप्तिरिति वाच्यम् । साध्यतावच्छेदकसम्ब न्धेन प्रतियोगिवैयधिकरण्यस्य विवक्षणेनैव तद्दोषवारणात् ।
न च 'प्रमेयवान् वाच्यत्वा' दित्यादावव्याप्तिरिति वाच्यम् । तादृशाभावभिन्नसंयोगसम्बन्धावच्छिन्नप्रमेयाभावमादायैवाव्याप्तिविरहादिति चेत्, -
- उच्यते, – 'महान सीयवह्निमान् धूमादित्यादावतिव्याप्तिस्ता दृशोऽभावभिन्नो यः संयोगसम्बन्धावच्छिन्नवह्नयभावस्तत्प्रतियोगित्वस्य साध्ये सत्त्वादिति ।
न च तादृशाभावप्रतियोगितावच्छेदकतापर्याप्त्यधिकरणत्वस्य 'साध्यतावच्छेदके" विवक्षणेनैतदोषवारणमिति वाच्यम् । तस्य लक्षणान्तरत्वादिति ध्येयम् ।
२४४
यद्यपि कालिकादिसम्बन्धेन साध्याभावमादाय व्यभिचारिमात्रे दोषवारणाय ‘प्रतियोगिवैयधिकरण्यं' साध्यतावच्छेदकसम्बन्धेनैव वाच्यम्, तथा च विषयितासम्बन्धेन धूमत्वविशिष्टाभावप्रतियोगितावच्छेदकावच्छिन्नस्य ज्ञानस्य साध्यतावच्छेद की भूत संयोगसम्बन्धेनाधिकरणाप्रसिच्या तादृशाभावे प्रतियोगिवैयधिकरण्याभावेन, प्रतियोगिव्यधिकरणाभावभिन्नत्वस्याक्षततया तादृशाभावप्रतियोगितावच्छेCarat धूमत्वादौ सत्त्वेन, 'धूमवान् वह्ने' रित्यादावतिव्याप्तिः, तथापि साध्यतावच्छेदकताघटकसम्बन्धेन प्रतियोगितावच्छेदकत्वस्य विवक्षणीयत्वान्न कोऽपि दोषः ।
न च तथापि जातिमदभावस्य हेतुसमानाधिकरणाभावभिन्नतया तत्प्रतियोगितावच्छेदकत्वस्य धूमत्वे सत्त्वेनातिव्याप्तिरिति वाच्यम् । तादृशप्रतियोगितावच्छेदकतायां निरवच्छिनत्वस्यापि निवेशनीयत्वादिति चेन्न ।
तदात्मत्वप्रतियोगिकसमवायेनात्मत्व साध्यकज्ञानहेतुकव्यभिचारिण्यतिव्याप्तिः, तथा हि- तादृशसमवायसम्बन्धेनात्मत्वाभावे प्रतियोगिवैयधिकरण्यस्य सत्त्वेऽपि व्यभिचारितया व्याप्यवृत्तिसाध्यकस्थलीय लक्षणस्याप्यलक्ष्यत्वेन तत्र प्रतियोगिवैयधिकरण्याप्रवेशेन तदभावस्य हेतुसामनाधिकरण्याभावात् हेतुसमानाधिकरणाभावभिन्नाभावतया तत्प्रतियोगितावच्छेदकत्वस्य साध्यतावच्छेद के सत्त्वाद्व्यभिचारिण उभयलक्षणस्यैवालक्ष्यत्वाल्लाघवा सम्भवाच्चेति ।
यदि च 'व्याप्यवृत्त्यव्याप्यवृत्तिसाध्यकस्थलमात्र एव साध्यतावच्छेदकसम्ब-न्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नाधिकरणत्वीय स्वरूपसम्बन्धेन यदभावप्रतियोग्यधिकरणत्वाभाववत्त्वं हेतुमतस्तदभावभिन्नाभावप्रतियोगितावच्छेदकत्वं'' 'साध्य' तावच्छेदके' विवक्षणीयं, तथा च न कोऽपि दोष इति सूक्ष्ममीक्ष्यते, तदा सुधीभिरेवात्र दोषोऽनुसन्धेय इति ध्येयम् ।