________________
काली-शङ्करी-विवेचना।
२४३
छननु साध्याधिकरणवृत्तित्व-जगद्वृत्तिभिन्नत्वोभयाभावविशिष्टहेत्वधिकरणवृत्यभावप्रतियोगिताशून्यसाध्यसामानाधिकरण्यस्यैव सम्यक्त्वेऽनवच्छेदकत्वानुसरणं च्यर्थमिति [जा. ५. पृ.]। ___ असम्भववारणाय 'जगद्वृत्तिभिन्नत्व'विशेषणस्य, व्यभिचारिण्यतिव्याप्तिवारणाय साध्यवद्वत्तित्वस्योभयाभावस्य प्रतियोगिकोटौ निवेशः। . न च व्यधिकरणसम्बन्धेन साध्याभावस्य जगद्वत्तितया तादृशाभावमादायैव व्यभिचारिण्यतिव्याप्तिवारणसम्भवे,-साध्यवद्वत्तित्वस्य वैयर्थ्यमिति वाच्यम् । समवायेन प्रमेयसाध्यकव्यभिचारिणि वाच्यत्वादिहेतावतिव्याप्तिवारणाय तदा. वश्यकत्वात् , साध्यवद्वत्तित्वं तु स्वप्रतियोगिमत्ताबुद्धिविरोधिताघटकसम्बन्धेन बोध्यं, तेन 'धूमवान् वढे'रित्यादौ नातिव्याप्तिः, संयोगाभावस्य जगद्वृत्तितया उभयाभावसत्वेन तमादायाव्याप्तिवारणाय 'प्रतियोगिवैयधिकरण्य'दलस्य सार्थक्यात् । तदर्थश्च साध्यतावच्छेदकसम्बन्धेन प्रतियोगिम्यधिकरणो बोध्यः, प्रतियोगिता तु-न सम्बन्धविशेषेण निवेशनीया, तथा च 'वह्निमान् धूमादित्यादौ स्वरूपेण घटाभावमादाय लक्षणसमन्वयः । एवं,-साध्यतावच्छेदकसम्बन्धसामान्यधर्मिकोभयाभावघटितप्रतियोगिवैयधिकरण्यकल्पे च,-गगनाभावमादायैव लक्षणसमन्वयः। __ मैवम् । 'संयोगी वृक्षत्वा'दित्यादावव्याप्तिः, सकलसंयोगस्यैव-निरुक्तप्रति योगिव्यधिकरणस्य केवलान्वयिनस्तत्तत्संयोगाभावस्य प्रतियोगित्वादिति कृतं पल्लवितेन । ___ अथ 'निरवच्छिन्नविशेषणताविशेषसम्बन्धेन जगद्वृत्तिभिन्नत्वस्य, तादृशसम्बन्धेन साध्याधिकरणत्तित्वस्य चोभयाभाववान् यो हेत्वधिकरणवृत्त्यभावः, तत्प्रतियोगिताशून्यसाध्यसामानाधिकरण्य'स्योक्तौ नोक्तस्थलेऽव्याप्तिः, तत्तत्संयोगाभावस्य तादृशोभयाभाववत्त्वाभावादिति । अनुगमस्तु-स्वसमानकालीननिरवच्छिन्नविशे. षणताविशेषसम्बन्धावच्छिन्नजगद्वत्तित्वसम्बन्धावच्छिन्नस्वनिष्ठावच्छेदकताकभेदवत्त्व, तादृशसम्बन्धावच्छिन्नसाध्याधिकरणवृत्तित्वोभयसम्बन्धावच्छिन्नस्वनिष्टावच्छेदकता. कप्रतियोगिताकभेदवत्त्वसम्बन्धेन यत्किञ्चिदभावविशिष्टहेत्वधिकरणरत्तिर्योऽभावस्तत्प्रतियोगिताशून्यसाध्यसामानाधिकरण्यमिति-समुदितार्थः।
मैवम् । 'घटत्वाभाव-पटत्वाभावान्यतरवान् घटस्व-पटत्वान्यतरस्मादित्यादी कालिकसम्बन्धावच्छिन्नप्रतियोगिताकवाच्यत्वाभावः, आत्मानुयोगिकस्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकगगनाभावाभावः, एतदन्यतरस्य साध्यतायां मेयत्वादिहेतावव्याप्तिः, सर्वस्यैव साध्यस्य-प्रत्येकाभावस्य निरुक्तलक्षणघटकतया-तत्प्रतियोगित्वादिति ॥ ४॥