________________
२४०
सिद्धान्त लक्षण-जागदोशी ।
___ दीपिका एवं प्रतियोगित्वनिष्ठाऽवच्छेदकताभिन्नाऽवच्छेदकतायामवच्छेदकतानिष्ठाऽवच्छे. दकताभिन्नत्वम्,
एवं - वृत्तित्वनिष्ठाऽवच्छेदकतायामवच्छेदकतानिष्ठाऽवच्छेदकताभिन्नावच्छेदकत्वानिरूपितत्वं देयम् , एवं रीत्या लाघवानवकाशात् ।
न च साक्षात्परम्परासाधारणनिरूपितत्वाऽस्वीकारे-ताशप्रतियोगिताऽवच्छेदकतावृत्तिभेदप्रतियोगितावच्छेदकत्ववद्विलक्षणसमुदायत्वप्रतियोगिताकभेद एव निवेश्यो न तु तत्तदवच्छेदकताभेदकूट इति वाच्यम् । धीविशेषविषयत्वरूपसमुदायत्वस्य प्रवेशे तादृशसमुदायत्वाविषयकत्वं बुद्धौ निवेश्य, एवमपि तादृशप्रतियोगिताऽवच्छेदकत्वं, वृत्तित्वं, भेदप्रतियोगित्वमवच्छेदकत्वमिति धीव्यावर्त्तनाय,-निरूप्य-निरूपकभावाऽऽपन्न. तत्तत्प्रकारताशालिबुद्धिःप्रवेश्या, तत्रापि-इतरवारकपर्याप्तिनिवेश आवश्यकः, तत्रापि साक्षात्परम्परासाधारणनिरूपितत्वस्वीकारे तत्तद्भदकूटवत्त्वं निवेश्यमिति रीत्या लाघवाऽनवकाशादित्यस्मद्गुरुचरणाः ।
प्रत्यग्र-शङ्कराचार्या मरु मण्डल-भास्कराः । 'स्नेहिरामजितो' यस्य पितामहतया मताः ॥१॥ 'लक्ष्मी'रम्बा, पिता साक्षाच शिवनारायणः सुधीः । षट शास्त्र-कुशलो, यस्य पितृव्यः 'परमेश्वर' ॥२॥ गुरुप्रसादसुधिया 'वामा-चरण'संश्रयात् । दीपिकोलासिता तर्के तेन, तुष्यतु शङ्करः ॥३॥
ॐ इति शुभम् छ
इति
व्याकरणाचार्य-दर्शनाचार्य न्यायशास्त्रि-'तर्क-भूषण'श्रीगुरुप्रसादशास्त्रिसङ्कलिता 'राज-लक्ष्मी'रिति प्रसिद्धा दीपिकाऽऽख्या
परीक्षोपयोगि-विवेचना।