________________
२२८
सिद्धान्त-लक्षण-जागदीशी।
जागदीशी यद्वा,-"स्वावच्छेदकताघटकसम्बन्धेन यादृशप्रतियोगितावच्छेदकानधिकरणं हेत्वधिकरणं, तादृशप्रतियोगितासामान्ये, यद्धर्मावच्छिन्ना
विवृति तथा च स्वामित्वेन धनसाध्यकद्रव्यत्वहेतौ व्यभिचारिणि वृत्त्यनियामकस्वामित्व. सम्बन्धावच्छिन्नप्रतियोगिताकाभावाप्रसिद्धया लक्षणघटकस्य समवायादिना धनाऽभावस्य धननिष्ठप्रतियोगिताया धनत्वावच्छिन्नत्ववत्त्वेऽपि,-स्वामित्वसंसर्गाऽतिरिक्तसमवायाद्यनवच्छिन्नत्वविरहवत्त्वेनोभयाभावसत्त्वात्स्वामित्वेन द्रव्यत्वव्यापकधनत्वावच्छिन्नसामानाधिकरण्यमादायातिव्याप्त्यापत्तेरित्यर्थः ।
वृत्यनियामकसम्बन्धस्याभावप्रतियोगितानवच्छेदकस्वेऽपि तत्सम्बन्धावच्छिन्नप्रतियोगितावच्छेदकतायाः सर्वानुमतत्वस्यावश्यं स्वीकरणीयतया निरुक्तलक्षणमन्यथा व्याचष्टे-यद्वेति । स्वावच्छेदकेति । तथा च प्रतियोगिवच्छेदकता. घटकसम्बन्धेन यादृशप्रतियोगितावच्छेदकस्यानधिकरणं हेत्वधिकरणं. तादृशप्रतियोगितासामान्ये,-साध्यतावच्छेदकयद्धर्मावच्छिन्नावच्छेदकतानिरूपितत्व,-साध्यतावच्छेदकयत्सम्बन्धावच्छिन्नावच्छेदकतानिरूपितत्वोभयाभावस्तादृशतत्सम्बन्धेन तादृशतद्धर्मावच्छिन्नस्य हेतु व्यापकत्वं', तद्व्यापकसामानाधिकरण्यं हेतौ 'ध्याप्ति'रिति विवक्षितमित्यर्थः ।
अस्ति च संयोगेन वह्वयादेधूमादिव्यापकत्व, समवायेन वह्निमतोऽभावस्य प्रतियोगितावच्छेदकताघटकसमवायसम्बन्धेन तादृशप्रतियोगितावच्छेदकस्य वढेर. नधिकरणहेत्वधिकरणपर्वतादिवृत्तितादृशाभावप्रतियोगितायां, वह्नित्वावच्छिन्नावच्छे. दकतानिरूपितत्वस्य विद्यमानत्वेऽपि, साध्यतावच्छेदकसंयोगावच्छिन्नावच्छेदकतानिरूपितत्वविरहेणोभयाभावसत्वात् । 'घटवान्महाकालत्वा'दित्यत्र च समवायादिना घटवतोऽभावमादायैव निरुक्तरीत्या लक्षणसमन्वयः ।
स्वामित्वसम्बन्धेन धनसाध्यकचैत्रत्वहेतुकस्थले,-स्वामित्वेन 'धनवान्नास्ती'त्यभावो न लक्षणघटकः, तदीयप्रतियोगितावच्छेदकताघटकस्वामित्वसम्बन्धेन धनसम्बन्धिताया एव चैत्रे सत्त्वात् , अपि तु समवायादिना धनवदभाव एव तथा, तदीयप्रतियोगितावच्छेदकताघटकसमवायसम्बन्धेन धनानधिकरणचैत्रवृत्तितादृशाभावीयप्रतियोगितायां धनत्वावच्छिन्नावच्छेदकतानिरूपितत्वसत्त्वेऽपि,स्वामित्वसम्बन्धावच्छिन्नावच्छेदकतानिरूपितत्वविरहेणोभयाभावस्याक्षततया स्वामित्वेन धनत्वावच्छिन्नस्य चैत्रत्वव्यापकत्वं बोध्यम् ।
गुरुधर्मावच्छिन्नप्रतियोगितावच्छेदकत्वानुपगमे,-संयोगेन प्रमेयवह्नित्वाव