________________
२२६
सिद्धान्त-लक्षण-जागदोशो।
दीधितिः -तेन सम्बन्धेन तद्धर्मावच्छिन्नस्य व्यापकत्वं बोध्यम् ।
जागदीशी भेदमादाय कथञ्चित्तत्र लक्षणसमन्वयेऽपि,–'दधित्वविशिष्टप्रमेयवान्स्थूलदधित्वा'दित्यत्राव्याप्तिः, केनापि सम्बन्धेन हेतुमतः साध्यतावच्छेदकावच्छिन्नानधिकरणत्वासम्भवात् ,
तत्रापि दध्यन्तरानुयोगिकसमवायादिसम्बन्धेन हेतुमतः प्रकृतसाध्यानधिकरणत्वे तूक्तक्रमेणापि व्यापकत्वं सुवचमिति तु-विभावनीयमिति ।
* तेन सम्बन्धेनेति ।-न चैवं संयोगेनापि रूपस्य पृथिवीत्व. व्यापकत्वापत्तिः, तेन सम्बन्धेन रूपाभावप्रतियोग्यधिकरणाप्रसिद्धेरिति वाच्यम् । तथात्वेऽपि तेन सम्बन्धेन रूपसामानाधिकरण्याप्रसिद्धय व व्याप्ति
विरतिः भेदमादायेति । तादात्म्येन तथाविधद्रव्यत्वानधिकरणत्वस्य घटे सम्भवादिति भावः ।
सर्वमन्यत्पूर्वोक्तदिशावसेयम् न चैवमिति । एवं = तेन सम्बन्धेन तद्धर्मावच्छिन्नस्य व्यापकत्वोक्ती,
व्यापकत्वापत्ति सङ्गमयति-तेन सम्बन्धेनेति । संयोगसम्बन्धेनेत्यर्थः । तथा च निरुक्तस्थले संयोगेन रूपाभावो न लक्षणघटकः, तदीयप्रतियोगितावच्छेदकसंयोगसम्बन्धेन रूपत्वावच्छिन्नाधिकरणाप्रसिद्या तदनधिकरणत्वस्यापि वक्तुमशक्यत्वात् , अपि तु संयोगेन घटाभाव एव तथा, तदीयप्रतियोगितायां साध्यतावच्छेदकसंयोगावच्छिन्नत्वसत्त्वेऽपि, रूपत्वावच्छिन्नत्वविरहेणोभयाभावसत्वाद्भवति संयोगेन रूपत्वावच्छिन्नस्य पृथिवीत्वव्यापकत्वापत्तिरिति भावः।
रूपस्य संयोगेनाधिकरणाप्रसिद्या साध्यतावच्छेदकसम्बन्धेन साध्याधिकरणवृत्तित्वरूपसाध्यसामानाधिकरण्याप्रसिध्द्यैव न तत्र व्याप्तिलक्षणातिव्याप्तिरित्या. शयेन समाधत्ते-तथात्वेऽपीति । संयोगेन रूपस्य पृथिवीत्वव्यापकत्वेऽपीत्यर्थः । तेन सम्बन्धेन = संयोगसम्बन्धेन, ।
दीपिका - वस्तुतो-घटत्वाऽभाव पटत्वाऽभावाऽन्यतरस्य स्वरूपेण साध्यत्वे घट-पटान्यतरत्वहेतावव्याप्तौ प्रन्थतात्पर्यम् । निरुक्तान्यतरस्याव्याप्यवृत्तितया, केवलाऽन्वयितया च स्वरूपसम्बन्धाऽवच्छिन्नत्वविशिष्टतादृशाऽन्यतरत्वावच्छिन्नत्वस्याऽप्रसिद्धरित्यपिवदन्ति ।