SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ विवृति- दीपिकालङ्कृता । जगदीशी वान् धूमा' दित्यत्राव्याप्तिः, संयोगसामान्य एव वह्नि-धूमोभयत्वावच्छिन्नप्रतियोगिकत्व-धूमाधिकरण पर्वतानुयोगिकत्वोभयाभावसत्त्वात्, - २१५ न च निरुक्तप्रतियोगितावच्छेदकावच्छिन्नवत्ताप्रमायाः सांसर्गिक - विषयत्वमेव — निरुक्तप्रतियोगिकत्वं वक्तव्यं, - - - - तच्च पर्वते वह्नि धूमयोः प्रत्येक संयोगस्याप्यस्तीति नाव्याप्तिः, अन्यथा 'संयोगेन 'पर्वतो वह्नि धूमोभयवा' नित्यादिप्रमाया दुर्घटत्वापत्तेरिति वाच्यम् ; तथा सति'अत एवेत्यादिना वक्ष्यमाणाया 'वह्नि- धूमोभयवान् वह्न' रित्यात्रातिव्याप्तेरसङ्गत्यापत्तेः, वह्नि-धूमो भयवत्ताप्रमानियामक संयोगमात्रस्यैव हेत्वधिकरणीभूताविवृतिः प्रतियोगित्वाश्रय प्रतियोगिकत्व विवक्षणे तु नाव्याप्तिः, संयोगसम्बन्धे तादृशोभया भावप्रतियोगित्वाश्रयधूमादिप्रतियोगिकत्वस्य हेत्वधिकरणपर्वताद्यनुयोगिकत्वस्य च द्वयोः सत्वादतः पूर्वोक्तातिव्याप्तिवारणाय प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिकत्वस्यावश्यं विवक्षणीयतया - वह्नि · धूमोभयत्वावच्छिन्नप्रतियोगिकत्वस्य संयोगे विरहात्साध्याभावस्य लक्षणघटकतयाऽव्याप्तिरित्याह- श्रव्याप्तिरिति । मनु 'प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगित्वं' - ' यत्किञ्चिद्धर्मिक प्रतियोगितावच्छेदकावच्छिन्नवा' निस्याकारकयथार्थज्ञानीय संसर्गत्वाख्य विषयत्वमेव, 'यथार्थ'पदानु पादानेऽयोगोलकानुयोगिकसंयोगमात्र एव धूमवदयोगोलकमित्याकारक धूमत्वावच्छिन्नवत्ताभ्रमीयसंसर्गस्वाख्यविषयत्वसत्त्वेन 'धूमवान्वह्ने' रित्यत्रातिव्याप्तिः । एवञ्च न 'वह्नि धूमोभयवान्धूमादित्यत्राव्याप्तिः साध्यतावच्छेदकीभूतसंयोगसामान्ये 'वह्नि धूमोभयत्वावच्छिन्नवान्पर्वत' इत्याकारकयथार्थज्ञानीय संसर्गत्वाख्यविषयत्वरूपतादृशोभयत्वावच्छिन्न प्रतियोगिकत्वस्य, - हेत्वधिकरणपर्वताद्यनुयोगिकत्वस्य च सत्त्वेन वह्नि धूमोभयाभावस्य लक्षणाघटकत्वादित्याशङ्कते - - न चेति । तच्च = निरुक्तविषयत्वरूपप्रतियोगिकत्वञ्च, प्रत्येकसंयोगे = वह्नि• संयोगे, धूमसंयोगे च श्रन्यथेति । वह्नि धूमयोः प्रत्येकसंयोगे निरुक्त प्रतियोगिकत्वानभ्युपगम इत्यर्थः । निराकरोति - तथा सतीति । निरुक्तप्रतियोगि प्रतियोगिकत्वस्य निरुक्तविषयत्वस्वरूपत्व इत्यर्थः । वक्ष्यमाणातिव्याप्त्यभावमुपपादयति- वहीति । तथा च निरुक्तरीत्या
SR No.032123
Book TitleSiddhant Lakshan
Original Sutra AuthorN/A
AuthorGaneshopadhyay, Guru Prasad Shastri
PublisherMster Khelari Lal & Sons
Publication Year1933
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy