________________
विवृति-दीपिकालङ्कता।
२०७
जागदीशी - न च यादृशप्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिक['स्वविशिष्ट-] सम्बन्धसामान्ये, हेत्वधिकरणीभूतयत्किञ्चिद्व्यक्त्यनुयोगिक[त्वविशिष्ट] साध्यतावच्छेदकसम्बन्धत्वस्य,
तथाविधसम्बन्धसामान्ये वा,-याहशप्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिकत्वस्य व्यतिरेकः, तादृशप्रतियोगितानवच्छेदकत्वमेव साध्यतावच्छेदकस्य कथं नोक्तमिति वाच्यम् ;
'द्रव्यवान् प्रमेयत्वा'दित्यादौ संयोगेन साध्यतायामतिव्याप्त्यापत्तेः;
प्रमेयानुयोगिकसंयोगसामान्यस्यैव द्रव्यत्वावच्छिन्नप्रतियोगिकत्वेन साध्याभावस्य लक्षणाघटकत्वादिति ध्येयम् ।
वितिः चाऽसत्त्वात् । 'घटवान्महाकालत्वा'दित्यत्र तु गगनाभाव एव लक्षणघटको, गगनप्रतियोगिकतादात्म्ये,-महाकालानुयोगिककालिकसम्बन्धत्वस्य, महाकालानु. योगिककालिके वा गगनप्रतियोगिकत्वस्य चाभावसत्त्वादित्याशङ्कते,-न चेति । 'वाच्य'मिति-परेणान्वयः । तथाविधसम्बन्धसामान्ये = हेत्वधिकरणीभूतयत्किञ्चिद्वयत्यनुयोगिकसाध्यतावच्छेदकसम्बन्धसामान्ये,
समाधत्ते-द्रव्यवानिति । अतिव्यात्यापत्तेरिति । निरुकनिरुक्तिद्वय एवातिव्याप्त्यापत्तेरित्यर्थः । ___ अतिव्याप्तिमुपपादयति-प्रमेयेति । तथा च गुणाद्यनुयोगिकसंयोगसम्बन्धाप्रसिद्ध्या यत्किञ्चित्प्रमेयत्वरूप हेत्वधिकरण'पदेन द्रव्यस्यैवोपादेयतया, तदनुयो. गिकसाध्यतावच्छेदकसंयोगसम्बन्धत्वस्य द्रव्यत्वावच्छिन्न प्रतियोगिकसम्बन्धसामान्यान्तर्गतसंयोगेऽभावविरहाद् द्व्याभावस्य लक्षणाघटकतया प्रथमेऽतिव्याप्तिः ।
द्वितीयेऽपि हेत्वधिकरणद्रव्यानुयोगिकसाध्यतावच्छेदकसंयोगसम्बन्धे द्रव्यत्वावच्छिन्नप्रतियोगिकत्वसत्त्वेन द्रव्याभावरूपसाध्याभावस्य लक्षणाघटकत्वादतिव्याप्तिरिति भावः ।
हेत्वधिकरणीभूतयत्किञ्चिद्वयक्त्यनुयोगिकसम्बन्धसामान्ये यादृशप्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिकत्वाभावविवक्षणे निरुक्तातिव्याप्तिवारणेऽप्ययोगोलका. नुयोगिकसम्बन्धसामान्यान्तर्गतकालिकसम्बन्धे,-धूमप्रतियोगिकत्वाभावविरहेण धूमाभावस्य लक्षणावटकत्वाद्धमवान्वतरित्यत्रातिव्यासिरतस्तादृशैकाभावो नात्र शङ्कापथमधिरोहतीत्यवधेयम् ।
१-२. लिखितपुस्तके नैष पाठ उपलभ्यते ।
-