________________
२०६
सिद्धान्त-लक्षण-जागदीशी।
जागदीशी -अभावान्तरमादायाऽतिव्याप्तिः,- गगनप्रतियोगिकत्वविविशिष्ट-महाकालानुयोगिकत्वाप्रसिद्ध्या गगनाभावमादाय प्रकृताव्याप्तिवारणासम्भवश्व स्यात् ,
-अतो निरुक्तप्रतियोगिकत्वविशिष्ट-यत्किञ्चिद्धत्वधिकरणानुयोगिकत्वसामान्याभावं 'परित्यज्य–'तदुभयसामान्याभाव'-उक्तः ।
विवृतिः | अभावान्तरमिति। न च निरुक्तरीत्याऽभावाप्रसिद्ध्यैव नातिव्याप्तिरिति वाच्यम् । गगनाभावस्यैव प्रसिद्धिसम्भवात् , गगनप्रतियोगिकत्वविशिष्टतटानुयो. गिकत्वस्य संयोगे प्रसिद्धस्य साध्यतावच्छेदकसम्बन्धसामान्येऽभावसत्त्वात् ।
केचित्तु-"तज्ज्ञानाभावमादायैवातिव्याप्तिसम्भवः, विषयतायां तज्ज्ञानप्रतियोगिकत्वविशिष्टतहटानुयोगिकत्वस्य प्रसिद्धिसम्भवादिति-"वदन्ति ।
ननु तद्धटत्वरूपहेतौ साध्यसामानाधिकरण्यविरहादेव नोक्तस्थलेऽतिव्याप्तिः, न च व्यापकत्वलक्षणस्यातिव्याप्तिरिति वाच्यम् । तादृशप्रतियोगितानवच्छेदकसाध्यतावच्छेदके हेत्वधिकरणवृत्तितावच्छेदकत्वविवक्षणादेव तल्लक्षणातिव्याप्त्यसम्भवादित्यत आह-गगनेति । प्रकृताव्याप्तिवारणासम्भवः = 'घटवान्महाकालत्वा'दित्यत्राव्याप्तिवारणासम्भवः, न च महाकालाभावमादायैव नाव्याप्तिः सम्भवति, महाकालानुयोगिकत्वविशिष्टमहाकालानुयोगिकत्वस्य तादात्म्ये प्रसि. द्धस्य कालिके विरहादिति वाच्यम् । तादाम्य-कालिकान्यतरसम्बन्धेन घटसाध्यकमहाकालत्वहेतावव्यातेरभिधीयमानत्वात् , साध्यतावच्छेदकसम्बन्धसामान्यान्तर्गततादात्म्ये तादृशविशिष्टाभावस्यासत्त्वादिति वदन्ति ।
ननु यादृशप्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिकसम्बन्धसामान्ये, हेत्वधिकरणीभूतयत्किञ्चिद्वयक्त्यनुयोगिकसाध्यतावच्छेदकसम्बन्धत्वाभावस्तादृशप्रतियोगितानवच्छेदकसाध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यं, अथवा हेत्वधिकरणीभूतयत्किञ्चिद्वयक्त्यनुयोगिकसाध्यतावच्छेदकसम्बन्धसामान्ये,-यादृशप्रतियोगिता. वच्छेदकावच्छिन्नप्रतियोगिकत्वसामान्याभावस्तादृशप्रतियोगितानवच्छेदकसाध्यतावच्छेदकविच्छिन्नसामानाधिकरण्यमेव लाघवाद्वयाप्तिरस्तु,--
-तावतैव 'वह्निमान्धूमादित्यादौ वह्वयभावो न लक्षणघटकः, वह्निप्रतियोगिकसम्बन्धसामान्यान्तर्गतसंयोगे-हेत्वधिकरणीभूतपर्वताद्यनुयोगिकसाध्यतावच्छेदकसम्बन्धत्वाभावस्य, तादृशपर्वताद्यनुयोगिकसंयोगे वा,-वह्विप्रतियोगित्वाभावस्य
१'अपहायेति लिखितपुस्तकपाठः ।