________________
विवृति-दीपिकालङ्कृता।
२०५ जागदीशी संयोगसामान्य एव समवायनिष्ठपर्वतानुयोगिकत्वस्य, वह्नित्वावच्छिन्नप्रतियोगिकत्वस्य च,-द्वयोरभावसत्त्वात्तथैवाऽव्याप्तिरत:-"सामान्योभये-"ति;
सामान्यपदमुभयत्रान्वितमिति भावः । तादृशोभयाभावश्च,-स्वरूपसम्बन्धेन बोध्यः,
तेन समवायादिना तदुभयाभावस्य सम्बन्धमात्रे सत्त्वेऽपि सद्धेतौ नाव्याप्तिः। 'एतद्धटवान् कालान्तरीय-तद्धटत्वा' दित्यादावेतद्धटत्वावच्छिन्न प्रतियोगिकत्वविशिष्टतद्धटानुयोगिकत्वाप्रसिद्धेः
विवृतिः संयोगसामान्ये,-पर्वताद्यनुयोगिकत्वसामान्याभावविरहेऽपि-समवायनिष्ठं यद्वः ह्नित्वावच्छिन्नप्रतियोगिकत्वं तदभावस्य तत्र सत्वेनोभयाभावस्याक्षततया वह्नयभावस्य लक्षणघटकत्वात् ,
एवं-तादृशानुयोगिकरवसामान्य'पर्यन्ताविवक्षणे तत्रैवाव्याप्तिः, संयोगसामान्ये,-वह्नित्वावच्छिन्नप्रतियोगिकत्वसामान्याभावासत्त्वेऽपि समवायनिष्ठं यत्पर्वताद्यनुयोगिकत्वं तदभावस्य तत्र सत्त्वेनोभयाभावसत्त्वात् ,
तदुपादाने च-वह्नित्वावच्छिन्नप्रतियोगिकत्वसामान्यान्तर्गतसंयोगनिष्ठतादृश. प्रतियोगिकत्वस्य, पर्वताद्यनुयोगिकत्वसामान्यान्तर्गतसंयोगनिष्टतादृशानुयोगिकत्वस्य च साध्यतावच्छेदकसंयोगसामान्येऽभावविरहान्नाव्याप्तिरित्याह-संयोगसामान्य इति ।
अव्याप्तिरिति । पूर्वोक्तोभयसाध्यके लक्षणसमन्वयान्नासम्भवोऽभिहित इति भावः ।
तादृशोभयाभावश्चेति । प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिकत्वसामाः न्य-हेत्वधिकरणीभूतयत्किञ्चिद्वयक्त्यनुयोगिकत्वसामान्योभयाभावश्चेत्यर्थः।।
सम्बन्धमात्र इति । समवायादेस्तादृशप्रतियोगिकत्वानुयोगिकरवयोय॑धिकरणसम्बन्धतया तेन सम्बन्धेन तदुभयाभावस्य सर्वत्र सत्वेन साध्यतावच्छेदकसम्बन्धसामान्येऽपि सत्त्वे बाधकाभावादिति भावः । अत्रापि तादृशोभयासाध्यकसद्धेतौ लक्षणसमन्वयसम्भवानासम्भव इति ध्येयम् । __ केचित्तु"-आत्मत्वसाध्यकज्ञानहेतौ प्रतियोगिवैयधिकरण्याघटिताया व्याले सत्वेन व्याप्तिलक्षणस्य नासम्भवोऽभिहित-"इति वदन्ति ।
विशिष्टाभावपरित्यागे बीजमाह-एतदिति । अप्रसिद्धरिति । विभिन्नकालीनयोराधेयभावानभ्युपगमादिति भावः ।