________________
२०४
सिद्धान्त-लक्षण-जागदीशी।
. जागदीशी यद्धर्मावच्छिन्न-संसर्गताकप्रकृतसाध्यकानुमितिः फलं तद्धर्मावच्छिन्नसम्बन्धसामान्य इति तु फलितार्थः ।
घटीयसंयोगे, पर्वतीयसंयोगे वा,-हेतुमन्महानसानुयोगिकत्व-वह्नि. त्वावच्छिन्नप्रतियोगिकत्वोभयाभावसत्त्वात् 'वह्निमान् धूमादि'त्यादावव्याप्तिरत:-प्रथम-'सामान्य'-पदं,
तथा च,-महानसीयवह्निसंयोग एव तादृशोभयाभावविरहान्नाव्याप्तिः । __ संयोगसामान्य एव हेतुमदयोगोलकानुयोगिकत्व,-धूमत्वावच्छिन्नप्रतियोगिकत्वोभयाभावसत्त्वाद्धूमवान् वढे'रित्यादौ नातिव्याप्तिः ।
विवृतिः यद्धर्मावच्छिन्नेति । तथा च यद्रूपावच्छिन्ना या यत्किञ्चित्सम्बन्धानवच्छिमा साध्यतावच्छेदकता,-तद्रूपावच्छिन्नतादृशावच्छेदकताश्रयसामान्य इत्यर्थः पर्यवसितः, एवञ्च समवायनिष्टसाध्यतावच्छेदकतायाः किञ्चित्सम्बन्धावच्छिन्नतया धर्तुमशक्यत्वेन,-तादृश्याः संयोगनिष्ठावच्छेदकताया आश्रयीभूतसंयोगसामान्ये,समवायित्वावच्छिनप्रतियोगिकरवसत्वेऽपि हेत्वधिकरणगुणानुयोगिकत्वविरहादुभयाभावस्याक्षततया, समवाय्यभावस्य लक्षणघटकत्वास 'समवायिमाजातिमत्वा'दित्यत्रातिव्याप्तिरिति भावः।।
'साध्यप्रतियोगिकसाध्यतावच्छेदकसम्बन्ध' इत्युक्तौ घटीयसंयोगमादायाव्याप्तेरभावादाह-पर्वतीयेति । अव्याप्तिरिति । इदमुपलक्षणं, समवाय संयोगान्यतरसम्बन्धेन वह्विसाध्यकधूमहेतावपि साध्यतावच्छेदकीभूतसमवाये वह्निप्रतियोगिकत्वसत्वेऽपि पर्वताद्यनुयोगिकत्वविरहेणोभयाभावसत्त्वादव्याप्तिरित्यपि द्रष्ट. व्यम् । सामान्यपदमिति । तथा च साध्यतावच्छेदकसम्बन्धसामान्यान्तर्गतमहानसीयसंयोगे वह्नित्वावच्छिन्नप्रतियोगिकत्व,हेतुमन्महानसानुयोगिकत्वयोर्द्वयोः सत्त्वेन वयभावस्य लक्षणाघटकत्वासाव्याप्तिरित्याशयः। न चासम्भवः शङ्कनीयस्तत्संयोगेन चह्विसाध्यकतद्धमहेतौ, वद्विधूमोभयसाध्यकधूमहेतौ च लक्षणसमन्वयसम्भवादुभयप्रतियोगिकत्वाप्रसिध्या साध्याभावस्य लक्षणाघटकत्वादिति ध्येयम् ।
नातिव्याप्तिरिति । धूमाभावस्य लक्षणघटकत्वादिति भावः । प्रतियोगिता. वच्छेदकावच्छिन्नप्रतियोगिकत्वसामान्यं यत्, यच्च हेत्वधिकरणीभूतयत्किञ्चिद्वय- क्त्यनुयोगिकत्वसामान्यं, तदुभयाभाव एव साध्यतावच्छेदकसामान्ये विवक्षणीयः । अन्यथा 'तादृशप्रतियोगिकत्वसामान्य'पर्यन्तानुक्ती,-'वह्निमान्धूमादित्यत्राव्याप्तिः,