________________
विवृति-दीपिकालङ्कृता।
दीधितिः भूतत्व-मूतत्वोभयत्वविशिष्ट,-गुण-कर्मान्यत्वविशिष्टसत्तात्व-विशिष्ट सत्तादिकन्तु न मनोगुणादिवृत्ति,
जागदीशी सत्तावद्वत्तित्वसामान्याभावस्य संयोगादावसत्त्वादुक्तातिव्याप्तिवारण. मेव 'यत्किञ्चित्'पदस्यापि प्रयोजनमित्यवधेयम् । 'प्रतियोगितावच्छेदकविशिष्टे'त्यस्य,-फलमाह,-भूतत्वेत्यादि ।
स्वयं मनसः खण्डनाद्भूतत्व-मूतत्वोभयसाध्यकमूतत्वस्य सद्धेतुतामाशङ्कथाऽऽह,-* गुणकर्मान्यत्वे * त्यादि । । _ 'विशिष्टान्त'द्वयं मनो-गुणयोः क्रमेणान्वितम् ।
विवृतिः हेत्वधिकरणगुणादौ कालिकेन वर्तमानतया सम्बन्धसामान्येन तदवर्त्तमानप्रतियोगिसामान्यकगगनाभावमुपादायातिप्रसङ्गः, साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वेन हेत्वधिकरणवृत्तित्वविवक्षणे तु-संयोगाभावप्रतियोगिनः-संयोगादेः-समवायेन गुण-कर्मादौ यत्तित्वविरहेण संयोगाभावरूपसाध्याभावस्य लक्षणघटकत्वासातिव्या. प्तिरित्यर्थः।
न च सत्ताधिकरणे नित्यगुणादौ केनापि सम्बन्धेन संयोगस्य वृत्तित्वविरहा. त्सम्बन्धसामान्येन हेत्वधिकरणवृत्तित्वनिवेशेऽपि,-'संयोगी सत्त्वा' दित्यादौ नातिप्रसङ्ग इति वाच्यम् । जन्यत्वविशिष्टसत्त्वस्यात्र हेतुत्वेनाभिप्रेततयाऽतिप्रसङ्गसम्भवादिति ध्येयम् ।
हेत्वधिकरणे यत्किञ्चित्त्वाविवक्षणे-'संयोगी सत्त्वा'दित्यत्रातिव्याप्तिः, संयोगाभावप्रतियोगिनः-संयोगस्य-समवायेन हेत्वधिकरणद्रव्यरत्तित्वात्संयोगाभावस्य लक्षणाघटकत्वात् ,
यत्किञ्चित्त्वोपादाने तु, यत्किञ्चिद्धत्वधिकरणे गुण-कर्मादौ संयोगस्य समवा. येनावृत्त्या साध्याभावस्य लक्षणघटकत्वानातिप्रसङ्ग इत्याह-सत्तावद्वत्तीति ।
उक्तातिव्याप्तिवारणार्थ = 'संयोगी सत्त्वा'दित्यत्रातिव्याप्तिवारणार्थम् , यत्किञ्चिदित्यस्य हेत्वधिकरणत्वसमानाधिकरणोभयारत्तितत्तदधिकरणव्यक्तित्वरूपधर्मा . वच्छिन्नस्य । स्थलान्तरेऽतिव्याप्तिं प्रयोजनमाह-स्वयमिति । दीधितिकारेणैवे. त्यर्थः । तथा च मनसोऽसत्त्वे मूर्त्तत्वाधिकरणे पृथिव्यादिचतुष्टये,-भूतत्व-मूतत्वोभय. रूपसाध्यस्य सत्त्वेन निरुक्तहेतोः सतुतया-तत्रातिव्याप्तिदानमसङ्गतमतो 'गुण-कर्माः न्यत्वविशिष्टसत्तावान् जाते'रित्यत्रातिव्याप्त्यभिधानमिति भावः । विशिष्टान्तद्वयंभूतत्व-मूतत्वोभयत्वविशिष्टं, विशिष्ट सत्तात्वविशिष्टञ्च । क्रमेणान्वितमिति ।