________________
विवृति-दीपिकालङ्कता।
१८७
जागदीशी -वृत्तिधर्मस्तदनवच्छिन्ना हेतुसमानाधिकरणाभावस्य प्रतियोगितालक्षणे निवेशनीया,
-प्रत्येकमुभयत्र पर्याप्तिसम्बन्धेनासतो धर्मस्य तादृशसम्बन्धेनोभयवृत्तित्वासम्भवेन हेतुमनिष्ठाभावप्रतियोगितावच्छेदकतापर्याप्त्यधिकरणभिन्नत्वस्य निवेशायोगात्,
एवञ्च प्रकृते महाकालान्यत्वविशिष्टघटत्वाद्यवच्छिन्नाभावस्य प्रतियोगितायाः साध्यतावच्छेदकाघटकेन महाकालान्यत्ववैशिष्ट्यरूपसाध्य. निष्ठधर्मेणाऽवच्छिन्नत्वात्तादृशप्रतियोगिताकाभावमादाय न प्रतियोगिव्यधिकरणाभावस्य प्रसिद्धिसम्भावनाऽपीति-"प्राहुः,
-तश्चिन्त्यम्,
-'प्रमेयवान् वाच्यत्वा'दित्यादौ हेतुसमानाधिकरण-तादृशप्रतियोगिताकाभावाऽप्रसिद्ध्याऽव्याप्तिप्रसङ्गात् ।
वस्तुतो-'यादृशप्रतियोगितावच्छेदकविशिष्टस्यानधिकरणत्वं हेतुमत' इत्यत्रावच्छेदकवैशिष्ट्यमवश्यं,-साध्यतावच्छेदकताघटकसम्बन्धेनैव वाच्यम्,
-अन्यथा वप्तायःपिण्डस्यापि कालिकसम्बन्धेन' धूमत्वविशिष्टस्य वह्नयादेः संयोगसम्बन्धेनाऽधिकरणतया 'धूमवान्वह्ने'रित्यादावतिव्याप्त्यापत्तेः,
विवृतिः महाकाले महाकालान्यत्वविशिष्टघटवत्त्वानभ्युपगमेऽपि न क्षतिरित्याह-वस्तुत इति । अन्यथेति । सम्बन्धसामान्येन यादृशप्रतियोगितावच्छेदकवैशिष्ट्याभिधान इत्यर्थः । अतिव्यात्यापत्तरिति । धूमाभावरूपसाध्याभावस्य
दीपिका अन्यथा तप्ताऽयापिण्डस्यापीति । ननु घटाऽभावीयप्रतियोगिताऽवच्छेदकघटत्वादेः कालिकादिसम्बन्धेन वैशिष्ट्यावच्छिन्नं यद्वयादिकं संयोगेन तदधिकरणताया अयःपिण्डे सत्त्वात्प्रतियोगिव्यधिकरणाऽभावाऽप्रसिद्धयैव नातिव्याप्तिरिति चेन्न । तदयः पिण्डाऽसंयुक्तपदार्थस्यासमानकालीना या क्रिया तद्वतोऽभावमादायैवातिव्याप्तिसम्भवादिति ध्येयम् । १. 'यद्धमत्वविशिष्टं वहयादिकं संयोगसम्बन्धेन तदधिकरणतये ति मुद्रितपुस्तकेषु पठ्यते ।